________________
श्री जगडूशाह-चरित्रम् भवद्यशःसुधाकरकरनिकरशिशरीकृताः प्रमोदमेव ध्रियन्ते। स्वामिन्! निखिलारातिविनाशनपटीयसि त्वयि धरातलमिदं शासति सति भद्रमन्दिरे मम गोत्रेऽपि च स्वस्तिवात्ता किं निगदामि?, नाथ! सकला अप्यरातयस्त्वया भूयसा बलौघेन विजितास्तथाप्येकः पीठदेवः कलिताऽखर्वगर्वस्तव शासनं नाङ्गीकरोति। लोकप्रमोदाय कृतोदयेन निरन्तरस्फारतरप्रभेण, त्वया समं स घूकवत्सदैव नितरामेव स्पर्धते। किञ्च यत्पुरा चौलुक्यवंशाऽवतंसो राजा भीमदेवोऽचीकरत्, तद् भद्रेश्वरपुरीयं दुर्गमं दुर्ग सलिलप्रवाहः सरित्तटमिव सोऽपीपतत्। यदि कदाचित्खरशिरसि विषाणयुगलमुत्पद्येत, तदा त्वमत्र पुनरभिरामं दुर्गं विदधीथा इति प्रौढदादवगणितपरभूपगर्वस्तरस्वी पीठदेवो मामवादीच्च। राजेन्द्र! अहमपि निजसन्धापालनाय त्वदन्तिके शीघ्रमभ्यागतोऽस्मि।' 'अतस्त्वं साम्प्रतं मह्यं त्रिगुणितार्कमिताऽश्ववारान् परैरजय्यान् क्षत्रियोद्भटान् ददस्व, तत्र स्थापनाय। तदाकर्ण्य दास्यामीति स नरेन्द्रो बभाण।
अथ चौलुक्यवंशाम्बरदिवाकरात्प्रीतात्तस्माल्लवणप्रसादाक्षितीशादुद्दामविक्रमं यथास्यात्तथा सकलक्षत्रियसद्वंशसम्भूतकुलश्रेणीसनाथं तद्बलमादाय सत्त्ववान् सोलसूनुभद्रेश्वरं नगरमाययौ। तत्र भद्रेश्वरे लवणप्रसादभूजानिचम्वा विराजमानं तज्जगडूकमाकण्यैव स पीठदेवः स्वस्थानं परित्यज्य क्वाप्यन्यत्राऽनश्यत्। अथादभ्रजाग्रत्तरबाहुवीर्यः स दुर्ग कारयितुं प्रचक्रमे। तदुपरि निशिभङ्गकर्तुर्भद्रसुरस्य सद्माऽसूत्रयत्। तदनु महीयसा तेजसा निर्जिताऽरातिजातिः सोलपुत्रः षड्भिर्मासैस्तत्र दुर्गे जातेऽन्यक्षत्रियकुलानि तदुर्गरक्षायै तत्र स्थापयित्वा सर्व सैन्यं भूभत्रै प्राहिणोत्। दुर्गंककोणे चाऽधः परिस्थापितपीठदेवमातृप्रसङ्गेन विभ्राजमाणं सशृङ्ग पाषाणमयं खरं स घटयामास। शृङ्गे च तस्य भूयसा स्वर्णेन विभूषयामास। यतः-'आत्मप्रतिज्ञापालनार्थ मानिनो जना
125