________________
श्री जगडूशाह-चरित्रम् वाक्यतस्त्यज। स्वबन्धुवर्गेण विराजमानस्त्वमधुना शश्वदेतदतुलकमलोपभोगं कुरुष्व ।' इत्थं साभिप्रायं ब्रुवन्तं दूतं जगडूरित्यवदत्'दूत ! नूनमत्र नव्यं भव्यं दृढतरं दुर्गं कारयिष्ये, त्वदीयस्वामिनः कापि भीतिर्नास्ति ।' तदनन्तरं पुरन्दरतेजसा तेन जगडूकेन नितान्तं तिरस्कृतः स दूतस्ततो गत्वा स्वभर्तुरग्रे दीनाननः सकलं वृत्तमवादीत्।
इतश्च, निजप्रतिज्ञापरिपालनाय प्रशस्तामुपदामादाय स जगडूरणहिल्लवाडनगरे [पाटण नगरे] गत्वा श्रीलवणप्रसादाख्यं क्षितिपालं ननाम । तदा चौलुक्यकुलैकदीपः स नरपतिरपि तमानतं गाढमालिङ्गय स्वसन्निधावेव सादरं वरासने न्यवीविशत् । अथ मुखेन्दुकान्तिवर्धिष्णुः सकलसभ्यजनप्रमोदसागरः क्षितीश्वरः सुधाकिरा गिरा सोलसुतं प्रीणयामास । तथाहि - 'भोः कृतिन् ! तव भद्रेश्वरपुरे कुशलं वर्त्तते?, त्वमधुनाऽस्मिन्नगरे निदेशेन विना सहसा किमर्थमागाः ?, मोक्षार्थिनां मनः समाधिनेव, धरातलं मेरुमहीभृतेव त्वयैकेन नूनमिदं मदीयं राज्यं सुस्थिरं विराजते । ' तदा मनसि प्रमोदपूरं दधद्रत्नाकरावासवरः स प्रशस्तधीरित्थं भूमिभृतस्तस्य गिरं श्रुत्वा सर्वसभासमक्षमिदमभाषत- 'हे चौलुक्यकुलपूर्णचन्द्र ! तावकीनातितीक्ष्णखङ्गधारायमुनाजलौघे सकलो विपक्षपक्षः सुखेन प्राणं विहाय दुरापमिदं स्वा राज्यसुखमनुभवति । देव! क्रूरातिक्रूराऽरातिकुलाटवीचयपरिपोषेण वर्धितोदये तत्रभवतां स्फूर्जत्प्रतापानले समस्त भूमण्डले व्याप्ते सति यदेष लोको भूयसा तापेन नो तप्यते, तदेतन्महच्चित्रं प्रतिभाति । किञ्चाऽशेषमहीमण्डले शश्वदुदयशालिनमनस्तमितं तावकं प्रौढप्रतापाऽरुणं दृष्ट्वा दृष्ट्वा तेऽतीवकातरहृदो द्वेष्टारश्छन्नपलायनैकमतयोऽपि कदाचिदपि छन्नं चरणौ नैव मुञ्चन्ति। अर्थाद्ये समुत्पन्ना जायन्ते, ते तत्कालमेव दहने शलभवत्प्रणश्यन्ति । ये पुनः प्रणतास्ते
124