________________
श्री जगडूशाह-चरित्रम्
देशं प्रशास्ति। यस्य नैदाघभानूपमाऽसह्यगुरुतरप्रतापेन सन्तप्तगात्राः प्रत्यर्थिनः सुधांशुधाम्ना पल्लवैः पङ्कजदलैर्वा जलार्द्रवातेन वा निर्वृतिं नाप्नुवन्ति । निजागण्यसैन्योत्थितधूलीपटलैरर्कबिम्बमाच्छादयन् समग्रं कच्छदेशं क्षोभयन्, अकाण्डसर्पत्प्रलयार्णवश्रीः स पीठदेवो भद्रेश्वरनगरमाससाद । त्रासितारिपक्षः स चौलुक्यवंशविभूषणेन बाणावलिना श्री भीमदेवाख्यनरेश्वरेण पुरा कारितं भद्रेश्वरपुरस्यातिदुर्गमपि दुर्गमपातयत् । तत्र बलेन समं निजं प्रचण्डदोर्दण्डभवं पराक्रमं विस्तार्य स पीठदेवो भूपतिः पुनः समृद्धं थरपारकरदेशमाययौ ।
तत्र भद्रेश्वरपुरे नवीनमतिदृढं दुर्गं निर्मापयन्तं जगडूकं कारान्तरन्यस्तविपक्षपक्षः स पीठदेव उच्चैरवेदीत्, तस्मिन्नवसरे तत्प्रेषितः कश्चन वाचालः सन्देशहारी पुमान् तत्र गत्वा तद्दुर्गनिर्मापणे कृतप्रयत्नं जगडूकमित्थं स्फुटां वाचमुवाच - भो जगडूक! स जितारिवर्गः पीठदेवो भूजानिर्मन्मुखेन भवन्तमित्यभिधत्ते, चेत्खरस्य मूर्धनि शृङ्गद्वयमुत्पद्येत तर्हि पुरेऽत्र दुर्गमपि जायेत । तस्य तादृशं वच आकर्ण्य धीमाननल्पतेजा असावेवमजल्पत्। 'रे दूत ! नूनमहं खरशिरस्यपि शृङ्गद्वयीं विरचय्य कृतप्रयासोऽत्र दुर्गमवश्यमेव जनयिष्यामि ।' पुनरपि वाग्मी स दूतस्तमेवमवदत्-'भोः ! द्रव्याऽखर्वगर्वेण त्वमधुना महीयसा बलीयसा मत्प्रभुणा सह सहसा वैरं बद्धवा मुधैव कुलक्षयं किं चिकीर्षसि ? किञ्चाऽत्र लोके बलीयसा स्पर्धमानः कोऽपि पुमान् मङ्गलमापन्नस्त्वया व्यलोकि ? स हि प्रदीपस्य प्रभामवलोक्य पतन् पतङ्ग इव विनाशमेवाधिगच्छति । अन्यदपि यः खलु लीलयैव प्रचण्डदोर्दण्डभृतां विपक्षीभूताऽशेषभूभुजां ज्वलन्तमपि प्रतापाग्निं शमयामास, स मामकः प्रभुस्त्वया सहेदानीं कलिवार्त्तयाऽप्यधिकं त्रपते। तस्मादेतद्दुर्गविधित्सया क्रियमाणममुं प्रयासं मत्प्रभु
123