________________
श्री जगडूशाह - चरित्रम् जीवाः पुण्यानुबन्धीनि कर्माणि कुर्वते, ताश्च वासना वर्त्तमानभव एव फलन्ति, कदाचिदिह भवे न फलन्ति चेद् भवान्तरे खलु प्राणिनस्तर्पयन्ति। परन्तु आत्मतत्त्व- रममाणजीवानां तु मुक्तिस्त्रीकरनिहितवरमालाया एव कामना जायते । मुक्तिजातमनन्तं सुखमेव वाञ्छति, तेषां मनो नेतरत्कदाचिदपि ।
भो लोकाः! इदमपि जानीत, यदत्र संसारे व्यवहारसम्यक्त्वाधिगमं विना निश्चितसम्यक्त्वासादनं कर्त्तुं जीवोऽसौ नो शक्नोति । यदि कश्चिद् व्यवहारसम्यक्त्वमुल्लङ्घ्य प्रथमं निश्चयसम्यक्त्वोपर्येव चटेत्, आत्मतत्त्वानि व्याहरेत्, पुनः संसारे खलु मिथ्यात्मके पुत्रकलत्रादिविषये संसज्जेत, तर्हि स पुमान् एकमप्यर्थमनधिगच्छन्नुभयथा हि भ्रष्टतामुपयाति । यावदेष जीवः पुत्रकलत्रादिव्यवहारपाशग्रस्तो भवेत् तावन्तं कालं व्यवहारसम्यक्त्वमवनीयमवश्यमेव तैः । अस्मिंश्च सम्यक्त्वे सर्वथा लाभ एव वर्वर्त्ति, देवगुरुधर्मान् परया भक्त्या समाराधयतां प्राणिनां सांसारिकाऽनेकसावद्यकृत्यानुष्ठानाज्जातानि पापानि नश्यन्ति, ततश्चात्मा पूतो भवति । इत्थमेतद्धि सम्यक्त्वमनादिकालतो जननमरणजरादिनानाक्लेशपरिपीडितानेताञ्जीवान् एतेभ्यो दुःखेभ्यः संमोच्य मुक्तिवध्वा उत्सङ्गेऽनन्तकालपर्यन्तं रमयतेतमामिति सविस्तरं सम्यक्त्वस्वरूपमश्रावयत श्रीपरमदेवसूरिः ।
अमुष्मात्सम्यक्त्वस्वरूपप्ररूपणादनेके भव्यजीवाः प्रत्यबोधन्। गुरोर्वदनात्सम्यक्त्वतत्त्वं यथावदवगत्य सपरिवारो जगडूशाहस्तत्सर्वं स्वान्ते निधाय गुरुवर्यं भक्त्या त्रिवारमभिवन्द्य स्वसदनमीयिवान्, गुरुरपि ततोऽन्यत्र विजहार ।
इतश्च विपक्षीभूताऽशेषभूभुजामखर्वगर्वाऽन्धकारप्रशमाय भास्वानिव जाज्वल्यमानः श्रीपीठदेवक्षितीश्वरः प्रशस्तं थरपारकरं
122