________________
श्री जगडूशाह-चरित्रम् स्वात्मज्ञानमुदियात्। तदैव निश्चयसम्यक्त्वमधिगतं भवेज्जीवानामेषाम्। तस्मिन् ज्ञाते सांसारिके विषये मनागपि जीवा नो रज्यन्ति। __ ये खलु भवन्त्यात्मवेदिनस्ते मानापमाने नो गणयन्ति, न वा कामयन्ते कीर्तिम्। ते सर्वदा रागद्वेषादिसमुज्झिता मोक्षमेव लक्ष्यीकृत्य स्वात्मन्येव रमन्ते। केवलमेतान्यष्टकर्माणि भस्मसान्नेयानीत्येव तेषां लक्ष्यबिन्दुर्भवति। अनारतं प्रयतन्ते च पापानुबन्धीन्यष्टादशपापस्थानकानि विहातुम्। निजात्मानमेव देवं मन्यन्ते निश्चयसम्यक्त्ववन्तः। गुरुरपि तेषामात्मैव बोभवीति, यानि खलु धर्मतत्त्वानि गुणतत्त्वानि च तान्यप्यात्मन्येव प्रच्छन्नतया वर्तन्ते। एतेषां समेषां प्राकट्यं विधाय वीतरागबुभूषया तीर्थकरपदलिप्सया सदैव यतन्ते चैते। दिवानिशमात्मतत्त्वेषु रममाणाः सांसारिकाऽऽश्रवैः सकलैश्च विमुक्ता निश्चयसम्यक्त्ववन्तः प्राणिनस्त्वस्मिन्नैव जन्मनि प्रसन्नचन्द्रराजर्षिवत्कैवल्यसुखमनुभवन्तितराम्। अथवा एकद्विरित्यल्पभव एव मुक्तिरमणीमवश्यमेते वृण्वन्ति। यतो हि निश्चयसम्यक्त्वधारका जीवा आश्रवमार्गमवरुन्धानाः सदैवाऽऽत्मन्येव रममाणाः किलैते कर्माण्येव निर्जरयन्ति। इत्थं निर्जरयतां तेषां बहुषु कर्मसु जीर्णेषु यथा यथाऽऽत्मध्यानेन तक्लिष्टकर्म क्षीणतां व्रजति, तथा तथा तदात्मा क्रमशः शुद्धः शुद्धतरो जायते, एवं विदधतां सर्वथा निःशेषकर्ममुक्तौ सत्यां कैवल्यमुत्पद्यते।
इह संसारे स्वेषां परेषां च यथार्थस्वरूपे ज्ञाते जडपौद्गलवस्तूनां मर्माणि स जानाति, ततोऽसौ पौद्गलिकसुखानि नैव स्पृहयति। उपरतासु तद्वासनासु सांसारिकसुखानि तु सुतरां नो कामयते सः। यावदेव प्राणिन इच्छन्ति, तावदेव धर्मात्मानो
121