________________
श्री जगडूशाह-चरित्रम् कालपर्यन्तमेवामुष्मिन् संसारे परिभ्राम्यति, ततोऽधिकं नेति बोध्यम् ।
अर्धपुद्गलपरावर्तनं कालविशेषस्य मानमस्ति । तथाहिदशकोटाकोटिसागरोपमः कालोऽवसर्पिण्यां याति एतावानेव काल उत्सर्पिण्यां याति, उभयोश्च सङ्कलनया विंशतिकोटाकोटिसागरोपमः कालः कालचक्रमेकं कथ्यते । अस्मिन्ननन्तकालचक्रेऽतीते किलैकपुद्गलपरावर्त्तनकाल उच्यते । सम्यक्त्ववन्तो जीवा इह संसारेऽधिकादप्यधिकमर्धपुद्गलपरावर्तनकालपर्यन्तं । भ्राम्येयुः ।
•
इह खलु ये भव्या व्यवहारसम्यक्त्वं सम्यक् परिपालयन्ति, तेषामेवैतन्निश्चयसम्यक्त्वस्य प्राप्तिः सम्भवति, नेतरेषाम् । यतःव्यवहारसम्यक्त्ववन्तो जीवा यथा यथा विशुद्ध भावेन श्रीतीर्थङ्करे भगवतीं भक्तिं कुर्वन्तस्तं प्रभुं जानन्ति तत्स्वरूपं विदन्ति, तथा तथा वीतरागस्य भगवतः प्रभावो महानेव जीवोपरि निपतति । ततश्चायं बाह्यं विहायाऽऽन्तरं तं बोधति । तदनन्तरमन्तर्दृष्ट्यां जागृतायां सत्यां स्वात्मा कोऽस्ति ? यश्चैष पौद्गलो धर्मो मामनादिकालतः सांसारिकेषु मिथ्यात्मकेषु पुत्रकलत्रादिविषयेषु व्यामोहयन् नितरामखेदयत्स कोऽस्ति ? उभयोश्चैकता नास्ति । इत्थमात्मपौद्गलिकधर्मयोः पार्थक्यमालोक्याऽऽत्मतत्त्वं जानानः कोऽस्म्यहं ?, कुतश्चागतोऽस्मि ? कुत्र च गन्तव्यमस्ति ? अहो ! अहमेकदा निगोदे किलाऽऽसम्? इदानीमपारेऽत्र संसारे परिभ्रमामि । अमुष्य जीवस्य सत्यात्मकं स्थानं मुक्तिरेवास्ति । येनासावजरामरतामुपैति । इत्यनायासेनैव जानात्यसौ जीवः । ततश्चानन्तज्ञानदर्शनचारित्र्यवीर्यादयो गुणा आत्मनो निसर्गजाः सन्तीति ज्ञात्वा तानात्मीयगुणान् प्रकटयितुं प्रयतन्ते जीवाः खलु । पश्चादित्यपि जानाति, यदहमात्मशक्तिं परावर्त्य मोक्षमधिगन्तुमर्हामि । इत्थमज्ञानपटले दूरीकृते 1. अर्धपुद्गलपरावर्तकालेऽपि अनन्तोत्सर्पिणी - अवसर्पिणी कालः कथितः ।
120