________________
श्री जगडूशाह-चरित्रम् कटपद्रपुरवासिनो देवपालस्य गृहे पारणाऽकारि, शर्केश्वरपुरमण्डनपार्श्वनाथप्रभोर्भव्यमन्दिरे तिष्ठतः सप्तयक्षान् वशीकृत्य समस्तयात्रिकाणां दुःखोपद्रवानपाकृतवान्, झिञ्झुवाडापुराधीशस्य दुर्जनशल्यभूपालस्य निजोग्रतपःप्रभावेण कुष्ठरोगमपाकृत्य तेनैव महीपतिना शर्खेश्वरपार्श्वनाथीयचैत्यस्य जीर्णोद्धारं कारितवांश्च। स महीयान्महाप्रभावकः श्रीपरमदेवसूरिरशेषमिदं महीतलं पवित्रयन्, सदुपदेशैरनेकभव्यान् प्राणिनः प्रतिबोधयन्, तत्र कच्छदेशे प्रधानराजधानी भद्रेश्वरनगरीमागात्। तदागमनेन प्रहृष्टो जगडूशाहो महतोत्सवेन महीयस्या भक्त्या च तं सूरिवर्य नगरं प्रावेशयत्। याचकेभ्यश्चापरिमितं दानं प्रदाय शासनस्य समुन्नतिं व्यधत्त। सोलनन्दनस्य महताऽऽग्रहेण स सूरीश्वरः कियन्तं कालं तत्रैव भद्रेश्वरे तस्थिवान्। तत्रावसरे तनगरवासिनी भावसारकुलोत्पन्ना काचिन्मदना श्राविकाऽऽचाम्लवर्धमानतपः प्रारब्धवती। तदा तामवादीदेवं परमदेवसूरिः-'वत्से! इदमतिकठिनं तपो देवतासहाय्यमन्तरा परिपूर्णतां नाचतीति भवतीदं मा कृत, अन्यदेव तपो विधत्ताम्।' परमेवं गुरुणा निवारितापि सा तदनुष्ठानानो न्यवर्तत। कतिचिद्दिनानि तस्यास्तदनुष्ठाने निर्विघ्नताऽऽसीत्। अथैकदिने काचिदुर्देवता तस्यास्तथोपसर्ग कृतवती, यथा सा मदना ततस्तपसो भ्रष्टा सती लोकान्तरमेव श्रितवती।
अन्यदाऽसौ सूरिराड् व्याख्याने समूचिवान्-'यदत्र संसारे शत्रुञ्जयगिरनारतीर्थावतिपवित्रौ स्तः, यः कश्चन श्रीसङ्घन सत्रा महीयसोरनयोर्यात्रां करोति, सङ्घवीयोपाधिं चाधिगच्छति, स पुमाननुपमं सुखं सत्वरमुपैति।' एतदुपदेशमाकर्ण्य जगज्जीवतोषयिता सोलनन्दनस्तदैव स सङ्घस्तीर्थयात्राचिकीरभूत्।
तदनु महीयसाऽऽडम्बरेण श्रीसङ्घञ्चतुर्विधं गमयितुं तदुपयोगिनीमशेषां सामग्री सज्जितुममण्डत्। स्वदेशीयान् वैदेशिकांश्च नरान्
137