________________
श्री रत्नसारकुमार - चरित्रम्
दीनातिदीनसुशर्महीनसुदुः खलीनसुदायकम् । जनरञ्जनं भवभञ्जनं शुभकर्म चासीद्यस्य हि, कुमतिं ह्रियात्सुमतिं ध्रियादेनांसि हन्यादस्य हि ||३|| यद्दीप्तद्युत्यतिद्योतिता – कुजना – प्रजाताः पेचकाः, यद्धर्मकर्म विलोक्य तेऽभूवन् द्विषो मुखमेचकाः ।
जैनातिजेनविपक्षिणो जगृहुर्यदीयं सन्मतं, आचारचारुविचारवान् कुर्यात् स शं मम सन्ततम् ||४|| स्वकस्वच्छगच्छसुसाधुसाध्वी श्रावका अथ श्राविकाः, गायन्ति यद्गुणगीतिकां निजभर्तृमानितमानिकाः । निजज्ञानध्यानविधान शीतसमीरनीरसमूहतः,
मदक्रोधलोभकुमोहमिथ्यातापवह्निर्नाशितः ||५||
प्रतिप्राज्ञपूरुषपूतिपूजितपूज्यपादं शर्मदं, शश्वत्प्रशस्ययशस्य श्रीशिष्यादिभञ्जितश्वापदम् । तं तारकं भवदुःखतो विस्तारकं भवशर्मणां, राजेन्द्रसूरिगुरुं सदा भज भञ्जकं भवकर्मणाम् ||६||
रात्रिन्दिवं मम मस्तकं प्रणमेत्करो मे चार्चयेत्, रसना मदीया तद्गुणान् प्रवदेत् पदब्जे हृत् स्मरेत् ।
पश्येदजस्रं चक्षुरेतन्मोहदं भवमौरर्व्यदं, श्रीमद्विजयराजेन्द्रसूरिगुरुं सदा शिवसौख्यदम् ||७|| इह ध्येयमूर्त्तिसुगेयगीतिसुकीर्त्त्यकीर्त्तिसुसन्मतेः, बहुमानमानितमानितक्रोधान्धकारसुदुर्मतेः। श्रीश्यामसुन्दर - वर्णितां हरिगीतिकां सुमनोहरां, राजेन्द्रसूरिगुरोर्मुदं पठतां प्रदद्याद् दुःखहाम् ||८||