________________
श्री रत्नसारकुमार-चरित्रम् सदा श्रावकाणां यथाऽऽलोचनाभिमुनीनां तथा सारणावारणाभिः ।
द्रुतं दूरमापादयन् दोषमार्गान्, स्वमाचार्ययोग्यं व्यनक्ति स्म लोके ||७|| समस्ताऽऽगमानां गृहीत्वा तु सारं, जनानां मुदं देशनाभिर्दिशन् यः ।
निजोत्कृष्टचारित्रसम्पालनार्थ, मरौ मालवे गुजरे च व्यहार्षीत् ||6|| मुनिश्रीयतीन्द्रेण श्रीमच्चरित्रं,
भुजङ्गप्रयातेन वृत्तेन बद्धम् । पठेत्कोऽपि भक्त्या पवित्रान्तराऽऽत्मा, सुखं तस्य सर्व भवेद् भावशुद्धेः ||९||
हरिगीतछन्दसि चारित्र्यचारु-विचित्रचित्र-चरित्रचित्रितचेतसः, मतिमत्तमत्त-सुत्यक्तमत्सर-दूरभूत-भवेनसः । लालित्यलक्षण-लक्षितारिखल-लोककीर्त्य-सुकीर्त्तयः, निजकर्मनाश-सुधीरवीर-सुध्यानवन्दितमूर्तयः ||१||
यदुष्कलङ्ककलङ्कशङ्काशङ्किताङ्गकुलिजिनः, तत्कीर्तिभित्तिविभीतिभीरुजनास्सुजातास्सङ्गिनः । करुणारुणारुणितेन्द्रियप्रथितप्रकीर्तिसुसज्जनः,
वैराग्यधीरसुवीरवन्दनसन्नदीकृतमग्ननः ||२|| जगतीतले जनिमाष्य जन्मवतां बतार्तिसुदायकं,