________________
जगत्पूज्यगुरुदेवगुणगर्भिताष्टके -
गुरोः पादपद्मद्वये सम्प्रलयं, मिलिन्दायमानं मदीयं मनः स्यात् । विशुद्धाऽऽत्मनः श्रीलराजेन्द्रसूरेविचित्रं पवित्रं चरित्रं तनोमि ||१||
प्रशान्तस्वरूपं सदा ध्यानमग्रं, जगजीवजीवातुभूताऽऽगमाऽऽढयम् ।
तपःकर्मनिष्ठं मनोज्ञप्रतिष्ठं, गुरुं पूज्यराजेन्द्रसूरि नमामि ||२|| चिरोलापुरस्थाश् चिराद् जातिबाहान्,
स्वकीयप्रभावाअनानुद्दधार । जिनेशप्रतिष्ठा पुराऽऽहोरपुयाँ, महासङ्घसम्भारतोऽचीकरद् यः ||३|| तथा त्रिस्तुति हारिभद्रीययुक्त्या, समक्षं बुधानां स्फुटं व्याकरोद् यः । जिनाऽऽज्ञाविहीनं मतं लुम्पकानां, निरास्थशिनाऽऽदर्शसंस्थापनेन ||४|| भवस्थान् जनान् दुःषमारप्रसूतानमन्दा
ज्ञताध्वान्तनष्टानिरीक्ष्य । निधानं समस्ताऽऽगमानामकार्षीत्, तदुद्धारहेतुं च राजेन्द्रकोशम् ||५|| भवाब्धिं व्यथौर्वाग्निना सम्परीतं, विना संयमं न क्षमो निस्तरीतुम् ।
सकर्णा जना देशनां मे शृणुध्वं, द्रुतं यूयमित्थं निदेशप्रशस्तम् ||६||