________________
श्री रत्नसारकुमार - चरित्रम्
व्याख्यानवाचस्पत्युपाध्याय
श्रीमद्यतीन्द्रविजयमुनिप्रवराणां प्रशस्तिपत्रम्
जिनमतजनतातिजातमानः, यमनियमादिगुणैर्विराजमानः । मुनिजनमनसि सुधासमानः जयतु यतीन्द्र - “यतीन्द्र” वब्द्यमानः ||१||
गुणिगणगणनाग्रगण्यमानः, शिवपदवीपदवीं प्रवर्त्तमानः । भविभवभवभीतिभज्यमानः, जयतु यतीन्द्र - यतीन्द्र वब्द्यमानः ||२||
अविरतसुतपस्तपस्यमानः, शमदमशीलगुणैश्च शोभमानः । जगति जडजनान् विबोध्यमानः, जयतु यतीन्द्र - यतीन्द्र वब्द्यमानः ||३||
अनुपमतनुदीप्तिदीप्यमानः, जिनततिशासितशासने सुमानः । कविरिव कविसङ्घसेव्यमानः, जयतु यतीन्द्र - यतीन्द्र वन्द्यमानः ||४|| जनजननमृतिविदार्यमाणः सततसुदुर्धरवीर्यधार्यमाणः । मतिमदतिनतो गताभिमानः, जयतु यतीन्द्र - यतीन्द्र वब्द्यमानः ||५||
"
जगति जलधिजीवतार्यमाणः सकलसदागम मर्मपार्यमाणः । मदगदरहितः प्रधीप्रधानः, जयतु यतीन्द्र - यतीन्द्र वब्द्यमानः ||६||
तपन हव विभा वितप्यमानः जनकमलौघमुदा विकास्यमानः | अखिलखलखलत्वहापयानः । जयतु यतीन्द्र - यतीन्द्र वन्द्यमानः ||७||
कलिमलिनमलं बलादलं यः, दलतितरां मुनिमण्डलाग्र्यमानः | अपरपरनरे सदा समानः, जयतु यतीन्द्र - यतीन्द्र वन्द्यमानः ||८|| स्तुतिरिह रचिता सुपुष्पिताग्रा, पदरुचिरा च यतीन्द्रवाचकानाम् । भवतु सुफलदा सदा तदेषा, घुतरुलतेव फला सुपुष्पिताग्रा ||९||
श्लोकानां नवकं रम्यं, शब्दार्थालङ्कृतिश्रितम् । व्याख्यानवाक्पतिश्रीमद्यतीन्द्रविजयस्य वै ||१०||
रचितं वाचकप्रीत्ये शिवशङ्करशास्त्रिणा | शाब्दे शास्त्रे च साहित्ये, आचार्यपदधारिणा ||११||