________________
श्री जगडूशाह-चरित्रम् नमोऽस्तु धन्यतमेभ्य ईदृशेभ्यो मुनिवरेभ्यः, येषामीदृशी दया मनसि विलसति। तच्छाकाहारेण मृत्वा सर्वार्थसिद्धिविमाने समवततार सः । ततो मनुष्यत्वमेत्य मोक्षमधिगमिष्यति ।
इत्थमेव शीलस्यापि महिमा जागर्त्ति । पुरा खलु सुदर्शन श्रेष्ठिनः शीलप्रभावाच्छूलिकापि सकललोकसमक्षं सिंहासनमभूत्। एतच्छीलमाहात्म्याादेव द्रौपद्याः सर्वेषां सभ्यानां मध्ये दुःशासने तच्चीरमष्टोत्तरशतवारमाकृषति सति नवनवं चीरमुत्पेदे । इत्थं कलावत्या अपि सच्छीलमहिम्नश्छिन्नोऽपि करः पुनर्नूतनोऽध्यजायत, महासती सीतापि निजाऽखण्डितशीलपरीक्षणाय श्रीमता रामचन्द्रेणादिष्टा सर्वेषु पश्यत्सु प्रज्वलिते हुताशनकुण्डे पपात । तदा सोऽग्निस्तच्छीलमाहात्म्यान्नैसर्गिकीं दहनशक्तिमपहाय जलवच्छीतलोऽभवत्। एवमेकदा सती सुभद्रा निजसतीत्वमहिम्ना किलाऽऽमतन्तुना बद्धचालन्या कूपाज्जलमानीय तत्परिषिच्य चम्पानगर्या द्वारस्य कपाटमुद्घाटितवती, धन्यवादार्हाः किलेदृशाः शीलमण्डनसुमण्डिता नरा नार्यश्च जगत्याम् ।
तपसो महिमा तु जगति सर्वत्र सुव्यक्त एवास्ति । यथा खलु मयूराणां डिम्भाः केनापि नो चित्रीयन्ते किन्तु स्वत एव चित्रिताः सम्पद्यन्ते। तद्वत्तपसः प्रभावोऽपि स्वत एव प्रकाशो भवति । क्लिष्टतराण्यपि कर्माणि दहनवत्क्षणादेव भस्मसात्करोति, प्रभुवर्द्धमानोऽपि सार्धार्कवर्षाणि महाघोराणि तपांसि कृत्वा स्वीयानि क्लिष्टानि कर्माणि किलाऽनीनशत् । ढण्ढणमहर्षिस्तु षाण्मासिकीं तपस्यां विधाय तत्पारणादिवसे कैवल्यज्ञानमाप्नोत् । धम्मिलकुमारः षण्मासान् यावदुग्रतरं तपः कृत्वा स्वकामितमलब्ध। लोकेऽस्मिन् खल्वसाध्यमपि कार्यं तपोबलात्सुखेन सिध्यति पुंसामत्र मनागपि सन्देहो नास्ति । जगति दुर्भगोऽपि महादुःखग्रस्तोऽपि ना यदि षण्मासान् 'आयम्बिलं' तपः कुर्वीत,
118