________________
श्री जगडूशाह-चरित्रम्
इहाऽभयदानम्, सुपात्रदानम्, अनुकम्पादानमुचितदानं, कीर्तिदानमिति पञ्चप्रकारा दानस्य सन्ति। तत्रान्तिमानि त्रीणि दानानि ये कुर्वन्ति, लोकेऽस्मिन् महती समृद्धिमाप्नुवन्ति, अवशिष्टे च द्वे दाने मोक्षप्रदत्वादुत्तमे स्तः, इति शास्त्रकृतामादेशो जागर्ति। पश्य पश्य य एष सुप्रसिद्धोऽस्ति शालिभद्रः स हि पूर्वस्मिन् भवे कश्चिदेकगोपालजीव आसीत्। परमेष शुभभावनया मासोपवासिने सुसाधवे पारणार्थमागताय क्षीरमदात्। तत्प्रभावादियतीं समृद्धिं स प्राप्तवान्। पश्चात्ताः सकला अपि सम्पत्तीविहाय स महावीरप्रभुपार्श्वे दीक्षां ललौ। चिरमत्र तां परिपाल्य प्रान्ते सर्वार्थसिद्धिविमानं प्रापत्। ततश्च्युत्वा मानुषं जन्म समासाद्य मोक्षं यास्यति। एवमस्य भगिनीपतिर्धनाभिधानः श्रेष्ठ्यपि पूर्वे भवे सुपात्रदानं दत्तवान्। तत्प्रभावादत्र जन्मनि महीयसी बुद्धिं सम्पत्तिं चापन्नः शालिभद्रवदेकावतारीभूय मोक्षं व्रजिष्यति। योऽयं प्रथमस्तीर्थङ्करस्तदीयजीवोऽपि पूर्वजन्मनि धनाभिधसार्थवाहः साधुभ्यो भक्त्या घृतानि ददौ। तत्प्रभावादेव मोक्षफलं स प्रासवान्। अभयदानमपि मुक्तिस्त्रीकरनिहितवरमालामाकर्षयितुमग्रेसरमस्ति। यथा-मेघरथो राजा स्वशरीरमांसदानेन कपोतपक्षिणमेकं तत्रे। तत्प्रभावाच्चक्रवर्तिनः समृद्धिमासाद्य षोडशस्तीर्थङ्करो भूत्वा मुक्तोऽभूदमुष्माद् भवसागरात्। तथा द्वाविंशतितमस्तीर्थङ्करो नेमिनाथः पुरा राजीमतीं परिणेतुं महीयसाऽऽडम्बरेण जन्यैः सत्रा गच्छन्, तल्लग्नसमाहूतजनतागौरवकृते वध्यपशूनामार्त्तनादमाकर्ण्य समुद्भूतप्रभूतविषयवैमुख्यस्तत एव परावर्तत। तां राजीमती नैव परिणीतवान्, तत्कालमेव खलु दीक्षितो भूतो हि शिवरमण्याः प्रेयान्। कश्चिद्धर्मरुचिनामा श्रमणः केनचिदर्पितं कटुतुम्बिकाशाकं गुर्वाज्ञया परिष्ठापयितुं परिव्रजन् पथि कीटोपरि जातानुकम्पः स्वयमेव तेन विषप्रायकटुतुम्बिकाशाकेन मासक्षपणपारणं व्यधात्।
117