________________
श्री जगडूशाह-चरित्रम् तदभिधाने निगदिते तदेव पैत्तलमाचक्षते। तस्मादवेदि मया यत्सर्वे यूयं तस्य द्वेष्टार एव। इत्थं तन्मनसि प्रमितमलीकमपि यथा नापयाति तथा यन्मनसो यन्मिथ्यात्वं नापसरति जात्वपि तदेवाऽभिग्रहिकं मिथ्याज्ञानमुच्यते।
द्वितीय-मिथ्यात्वे तादृशः कदाग्रहो नास्ति। तथाप्यात्मगुणान् मलिनानेतदपि करोत्येव। यदुदयादेष जीवः सुदेवकुदेवयोः सुगुरुकुगुर्वोः सुधर्मकुधर्मयोः साम्यं जानीयात्। एतदेव खलु महानिबिडं मिथ्यात्वमुच्यते। एतदेवाऽनभिग्रहिकमिथ्यात्वज्ञानं जल्पन्ति पण्डिताः।
यदुपयोगराहित्येन भ्रान्त्या व्याख्यानोपदेशसमये सभासमक्षं जिनेन्द्रवचनतो विरुद्धमाचक्षीत। असत्यमेवेति जानतापि पुंसा तत्सत्यापयितुमनेकाः सत्योऽसत्यो वा युक्तयो विरच्येरन्, स्वीयं हठवादं कदाग्रहं वा नो जह्यात्। निजाज्ञानाङ्गीकारे चात्मप्रतिष्ठाहानिः स्यादिति बिभीयाच्च। परमीदृगुत्सूत्रप्ररूपणाज्जीवोऽयमनन्तकालं संसारेऽत्र जन्ममरणजं महाक्लेशमेवानुभवतितमामित्याभिनिवेशिकमिथ्यात्वमुच्यते।।
येन श्रीवीतरागवचनेष्वपि संशयीत। यत्राल्पीयसी स्वबुद्धिः किञ्चिदपि न प्रविशति, तादृशातिसूक्ष्मबहुतरमनःप्रणिधानगम्यविषयविचारणायां जायमानायामसती कल्पनां कुर्वीत, यानि निगोदादिसूक्ष्मतत्त्वानि तद्बुद्धेरगम्यानि तेषु सहसा शङ्केत-किमिदं सत्यमसत्यं वा। अथवा धर्मान्तरे यन्त्रमन्त्रतन्त्रादिचमत्कृतिमालोक्य ध्रुवमेष एव धर्मः श्रेयानिति मत्वा तमेव कामयेतेति सांशायिकमिथ्यात्वं ज्ञेयम्।
येनाऽयं प्राणी संमूर्छिमज इव परकीयावलोकनेन शून्यमनसा वस्तुतत्त्वादिपरमार्थमजानानः क्रियासु प्रवर्तेत। तदेवाऽ -
113