________________
श्री जगडूशाह-चरित्रम् व्यस्तेन, परं स तं पश्चादपि नैवोज्झति। यतस्तन्मानसे किलेयं शङ्का जायते-नूनमहमेतबलादेवोत्पतामि। इत्थमलीकशङ्काभ्रान्तिग्रन्थ्या यावज्जीवं स तं गृह्णात्येव, कदापि नो मुञ्चति, तद्वत् अथवा कस्यचिदेकस्य तापसशिष्यस्य मनसि सौवर्ण कटकं परिधातुमीहोत्पेदे। तदनु स तद्योग्यं स्वर्ण क्रीत्वा कस्मैचिद् धूर्तस्वर्णकाराय तन्निर्मातुमदात्। सोऽपि झटित्येव तदीयं वलयं निर्माय तस्मै प्रत्यर्प्य समाख्यत्- भोः! त्वमेतदापणे गत्वा परीक्षोपले परीक्षय? परन्तु मदीयं नाम कुत्रापि नो वाच्यम्। यतो भूयांसोऽत्र मे वैरिणः सन्ति, तेऽवश्यमेवैतद् विपरीतं वदिष्यन्ति। तथेति तद्वचः प्रतिपद्य स कस्यचित्साधुकारस्यापणे तत्परीक्षणमचीकरत्। कृते च तस्मिन् सौवर्णमेव यथार्थमभूत्तत्। ततो जातविश्वासः स स्वर्णकारान्तिकमागत्य पुनस्तस्मा अदात्। अथ स पश्यतोहरस्तद्वलयं धावन् धावन् पुराक्षिसं पैतलं वलयं तस्मै दत्तवान्, यदासीत्सौवणं तदपाहरदेव, उक्तं च-भोः! एतद् गृहाण। पुरा त्वयैकदा मदीयनामाग्राहं परीक्षितं, तदा सर्वे तत्स्वर्णमेव जगदुः। पुनरिदानीं तत्रैव गत्वा त्वमेतस्य परीक्षां कुरु? कथ्यतां च मन्नाम, मदभिधां श्रुत्वैव ते नूनमेतद्विपरीतं वक्ष्यन्ति, येन भवानपि तूर्ण ज्ञास्यति यत्सन्ति मेऽत्र नगर्या सर्वे द्वेषिणो न वेति। तदैव सोऽपि तद्वलयं लात्वाऽऽपणमेत्य तत्रामग्राहं तत्परीक्षणमकारयत्। तदा सर्वे व्यापारिण उच्चैरूचिरे-अहो! एतत्तु पैत्तलं वलयमस्ति। यदानीतं पुरा सौवर्ण तन्नास्त्येतत्। रे मूर्ख! त्वमवश्यं तेन धूर्तेन स्वर्णकारेण वञ्चितोऽसि। एतदवितथं लोकानां कथनं संश्रुत्य सोऽवोचत्-भो भो द्वेषसंमग्नाः! ज्ञातं मया, यद् भवन्तः सर्वेऽतथ्यमेव जल्पन्ति। ध्रुवमेव भवन्तः सर्वे साधुमपि तं वञ्चकं वदन्तो द्विषन्ति मुधा। यदेतदेव वलयं पुरा तन्नामाऽजानाना भवन्तः सकलाः सौवर्ण कथितवन्तः। इदानीं
112