________________
श्री जगडूशाह-चरित्रम् ॥ मानास्तदेव सर्वस्वं विदन्ति, यच्चात्मीयं तत्तु विसस्मारैव। ईदृगज्ञानमिथ्यात्ववशंवदीभूतोऽयं प्राणी स्वस्वरूपमप्यस्मरन्, यच्चेदमनित्यं शरीरं तत्रैव बुद्धिं विदधाति, हन्त!!! कीदृशोऽयं व्यामोहः? परमेतन्नो जानाति यदयं देहः स आत्मा नास्ति, किन्तु शरीरातिरिक्तः कश्चिद्विलक्षण एव शुद्ध आत्मास्तीति स एव स्वीयो मन्तव्यः। यदिदं क्षणभङ्गुरं दृश्यते शरीरं तदितर एवास्ति। अतो यावदीदृमिथ्याज्ञानमात्मा नोज्झति, तावदेष स्वकीयविशुद्धसत्तां नावगच्छति। अस्मिँस्तावद् बाह्यदृष्टिरेव तिष्ठति। अयमात्मा यथाऽनादिकालतः संसारेऽत्र बम्भ्रमीति, तथा मिथ्यात्वमप्यमुष्य संलग्नमस्त्यनादिकालतः। तच्च मिथ्यात्वं पञ्चधा न्यगादि शास्त्रे१. अभिग्रहिकमिथ्यात्वम्, २. अनभिग्रहिकमिथ्यात्वम्, ३. आभिनिवेशिकमिथ्यात्वम्, ४. सांशयिकमिथ्यात्वम्, ५. अनाभोगिकमिथ्यात्वं च।
अमुना मिथ्यात्वज्ञानेनान्धीभवन्तोऽमी जीवाः कषायाणां पारवश्यमिता अनेकविधानि, गाढपापकर्माणि, पृथिव्यामस्यामर्जयन्तः किल घोरतरं नरकमाप्नुवन्ति। अस्ति चैतयोः सम्यक्त्वमिथ्यात्वयोनैसर्गिकः परस्परविरोधः। अत एवैकत्र कुत्रचिदप्येते नैव सन्तिष्ठेते। एतत्पञ्चधात्मकं मिथ्यात्वं तत्स्वरूपज्ञानपूर्वकं हित्वैव विशुद्धमनाश्चराचरजीवोद्भूतप्रभूतकरुणोऽसौ प्राणी सम्यक्त्वसम्मुखमागन्तुमर्हति, इतरथा नहीति रहस्यम्।
तत्रादिममिथ्यात्वप्रभावात् पुमान् विद्वानपि, लोकमान्योऽपि, प्रतिष्ठिततमोऽपि स्वीयासदाग्रहं कदाचिदपि नो जिहासति, किन्तु तस्यैव समर्थनाय नानाविधां कुयुक्तिमुपस्थापयते। मनागपि ततो नैव बिभेति। यदा लोके हालराभिधानं पक्षिणं शैशवे प्रसूरुड्डयनं शिक्षयति तदा तत्पदयोरधस्तात् काष्ठकीलकं स्थापयति, यद् बलात्तूर्णमुत्पतत्ययम्। शिक्षिते चोत्पतने तच्छङ्कुत्यागो विधात
111