________________
श्री जगडूशाह-चरित्रम् प्रभवन्ति स्म, अनन्तकालं तत्रैव निगोदे नानाविधभवितव्यतायोगादुत्पद्यन्ते म्रियन्ते च, ते खल्वव्यवहारराशीया जीवा निगद्यन्ते। नैगोदास्तेऽव्यक्ततयैव जायन्ते विलीयन्ते च, यतो भवति चामीषामतिसूक्ष्मो भवः। एष एव भवः शास्त्रे क्षुल्लकभवत्वेनोच्यते। जायन्ते चै कस्मिच्छ वासोच्छ नासे निगो दीयजीवानां सार्धचतुर्णवत्या-वल्यधिकसप्तदशभवाः, कियन्तश्च नैगोदिका जीवा ईदृशाः सन्ति, ये खलु यातेऽप्यनन्तकाले निगोदानव निर्गमिष्यन्ति बहिः। यद्यत्र कश्चिदेवं पृच्छेत्-'कियन्तो जीवा मोक्षमधिगताः?' तदुत्तरमेतदेव कथनीयम्-यदद्यावधि निगोदस्यैकस्याऽनन्ततमो भाग एव मोक्षमध्यगच्छत्। उक्तं च शास्त्रे जया जया होइ पुच्छा, जिणाण मग्गम्मि उत्तरं तइयं । इक्कस्सनिगोयस्स, अणन्त भागो य मुक्खगो ||१|| ___ व्याख्या - यदा यदा जिनेश्वरं कश्चिदेतदपृच्छत्-'कियन्तो जीवा मुक्तिं गताः?' तदा तदा जिनमार्गे भगवानेतदेव तदुत्तरमकरोत्- 'एकस्य निगोदस्यानन्ततमो भागो मोक्षमापत्।'
योऽयमात्माजरामरः सोऽपि कषायकर्मयोगात्पीड्यमानस्तदुद्भूतां सन्तापसन्ततिं सहमानः संसारे नानाविधजननमरणमुपैति। यावदेव सम्यक्त्वशोभा नो धत्ते, तावन्तं कालं बहिरङ्गपौद्गलिके सुख एव मुदमेति। तत्रानुरक्तोऽसौ पुत्रकलत्रादिकुटुम्बार्थमनेकधा कर्माणि बध्नाति। तेषां कर्मणां फलमपि पारवश्येनैव जीवोऽयं भुङ्क्ते। पौद्गलिकसुखलिप्सया चैष तदधीनतामासादयति। येषु पुत्रकलत्रादिष्वसौ दिवानिशं रज्यति ते सकला अप्यमी स्वीया नैव भवन्ति, नूनमेकदा जीवोऽसौ सकलं विहाय यात्येव। येषु लक्ष्मीराज्यसत्ताविभुताधिपत्यतादिबाह्यरमणीयवस्तुषु प्रतिबद्धा अस्वानेव तानात्मीयान् मन्य
110