________________
श्री जगडूशाह-चरित्रम्
भो भव्य! दर्शनं नाम सम्यक्त्वमवेहि, तेन भ्रष्टो जीवः सर्वथा भ्रष्टतामेवाप्नोति। अर्थात्-तत्र भ्रष्टस्य त्यक्तसम्यक्त्वस्य पुनः पुनरमुष्मिन् भवार्णव एव पतनं बोभूयते, जात्वपि संसारसागरादेतस्मान्मुक्तिों जायते। पुनरमुना जीवेन यावत्सम्यक्त्वं नासाद्यते तावत्कर्मविमुक्तिभूय मोक्षश्रियं नो लभते। चरणेन चारित्रेण रहिता भ्रष्टा जीवाः पुनश्चारित्र्यमधिगम्य सञ्जातसम्यक्त्वप्रभावात्समयान्तरे प्राप्नुवन्ति शाश्वतं मोक्षसुखम्। परन्तु सकृदपि ये जीवाः सम्यक्त्वभ्रष्टा जायन्ते ते पुनः यावत् सम्यक्त्वं न प्राप्नुवन्ति तावत् कदाचिदपि मुक्ता नैव भवितुमर्हन्ति। एष जीवोऽनन्तकालपर्यन्तं खल्वस्मिन् संसारे सम्यक्त्वासादनमन्तरा भ्राम्यत्येव।
सर्वेऽमी प्राणिनो निगोदे स्थिताःसन्ति। एषु शाश्वतचतुर्दशराजलोकेष्वसंख्याता निगोदगोलका विद्यन्ते। तेष्वप्येककस्मिन् गोलकेसंख्याता निगोदा वर्तन्ते। पुनरेकैकस्मिन्निगोदेऽनन्ता जीवाः सन्ति। जात्वप्येषामवसानं नोदेतीति तत्त्वम्। यस्मादद्यावधिगतेऽप्यनन्तकाले किलैकोऽपि निगोदः शून्यतां नालभत, किन्तु जगति चतुरशीतिलक्षजीवयोनौ परिभ्रमन्तस्तद्वदेव तिष्ठन्ति। कर्मदलानि क्षपयित्वा यावन्तो जीवाः संसारादस्माद्विमुच्यन्ते, तावन्त एव जीवा निगोदाद् बहिरायान्ति।
तत्रस्थानां जीवानामित्थं द्वैविध्यमस्ति एको व्यवहारराशीयो द्वितीयोऽव्यवहारराशीयः। ये च जीवा निगोदतो बहिर्गताः संसारेऽत्र चतुरशीतिलक्षजीवयोनौ परिभ्रम्य पुनस्तादृशभवितव्यतया कर्माणि शुभाऽशुभानि चिन्वन्तस्तत्रैव निगोदे गच्छन्ति स्म, ते जीवा व्यवहारराशीया उच्यन्ते। __ ये पुनरनन्तातीतकालेऽपि निगोदाद् बहिरेतुं कदाचिदपि न
109