SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्री जगडूशाह-चरित्रम् प्रस्तरान्तर्निर्गतानि तानि रत्नानि निजभाण्डागारे स्थापयाञ्चक्रे । तदन्तस्ताम्रपत्रमेकमासीत्, तत्र राजादिलीपो ह्येतानि रत्नानि निहितवानस्यान्तरिति लेखोऽपाठि तेन महेभ्येन । अथानवरतपरोपकारपरायणः सर्वाशाप्रसृताऽमिताऽमलयशस्स्तोमः श्रीमान् जगडूशाहस्तावताऽप्रमेयरत्नेन कौबेरीं दिशं श्रितः सहस्रांशुरिवाधिकमशोभत, शुक्ले शशिनः कलेव तदीया सुकीर्त्तिः प्रत्यहमेधितुमलगच्च । एकदा कच्छदेशीय नानानगराणि पावयन् श्रीपरमदेवसूरिः सुशिष्यमण्डल्या सत्रा भद्रेश्वरनगरीमैषीत् । तत्र बहुश्रुतस्थविराचार्यागमनमाकर्ण्य सोलकुलकमलदिनेशेन जगडूशाहेन महामहेन धर्मगुरोः पुरप्रवेशोऽकारि । तत्र महोत्सवे जैनेतरापि नरनारी जनताऽऽनन्दमनुभवन्ती सम्मिलिता सती तमुत्सवं व्यातेने, प्रशशंसुश्च सर्वे लोका अमुष्य सूरीश्वरस्य सच्चारित्र्य वैराग्यादिविशिष्टोदारगुणगणं मुक्तकण्ठम्, उदतारयच्च निजविशालभवनोपकण्ठे महोपाश्रये महताऽऽडम्बरेण गुरुमेनं जगडूशाहः सप्रमोदः। तत्रायातः सकलशास्त्रपारगामी स सूरिराडपि मेघगम्भीरया गिरा धर्मदेशनामपूर्वां ददानो निजया विद्वत्तया सर्वेषां मनांसि चकितानि व्यधात् । लेभिरे च भूयांसो भव्यजना व्रतनियमादिकम्। अप्राक्षीच्च तस्मिन्नवसरे जगडूशाहस्तं सम्यक्त्वस्वरूपम्। तथाहि-भगवन्! किं नाम सम्यक्त्वम्?, कथं चैतदधिगम्यते ?, प्राप्यते वा किमेतदधिगमनेन ? अथैतेषां प्रश्नानामुत्तरं निगदितं परमदेवसूरिणा । तथाहि - दंसणभट्ठो भट्ठो, दंसणभट्ठस्स नत्थि निव्वाणं । सिज्ांति चरणरहिया, दंसणरहिया न सिज्झन्ति ||१|| 108
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy