________________
श्री जगडूशाह-चरित्रम् त्वयेदृश्येव कृपादृग्भिर्वृष्टिर्विधेया, इत्येव शतशोऽहमभ्यर्थये भवन्तम्।
अथैवमाचक्षाणं श्रेष्ठिनमाख्यातवान् स योगीन्द्रः - महामते ! भक्त्या ते प्रसन्नोऽस्मि । यदर्थमहमत्राऽऽगां तत्कार्यमकरवम् । यथेदानीं लोकानुपकुरुषे तथैवाऽनवरतमुपकर्त्तव्यमग्रेऽपि मनागपि तत्र प्रमादो न विधातव्यः । भाग्यवशादीदृशीं सम्पत्तिमासाद्य लोकाननाथानतिदुःखिनो ये जना उपकुर्वन्ति, वसनादिना तेषामहमपि दासत्वं विदधामि खलु । ये खलु लक्ष्म्या आधिक्यमित्वापि परान् नोपकुर्वतेऽनाथादीन्, न वा निजकुटुम्बं पुष्णन्ति तेऽवश्यमत्र लोके जीवन्त एव मृता मन्तव्याः । मृतेषु तेषु ताः सम्पद इतरे जना एव भोक्तारो जायन्ते । स्वयं तु नारकयातनामेव चिरं सहन्ते किमधिकम् ? कृपणानामत्र लोके केचिन्नामपि नैव गृह्णन्ति, अशुभसूचकत्वात् । अत एव त्वमियत लक्ष्मीं भाग्यादधिगम्य तस्याः सद्व्ययेन जगन्ति जीवय, एवमुपदिश्य जगडूशाहं निजकर्त्तव्यतामस्मारयत्स योगीन्द्ररूपो देवः खलु ।
पुनरवोचत् श्रेष्ठी - देव! सम्यगधुनाऽमुनोपदेशेन त्वयाऽस्मारि, मामिकाः सकला अपि श्रियः सतां साधूनामनाथप्रमुखानां जनानामर्थमेव समुपयोक्ष्यन्ते तत्र संशयं मा गाः । धर्मार्थमेव व्येमि, अग्रेऽपि व्येष्यामि च । तावकमेनमुपदेशं कदाप्यहं नो विस्मरिष्यामि । 'त्वमधुनाऽऽत्मीयं दिव्यं रूपं दर्शय? येनाहं कृतकृत्यतामुपनयेयम्' इत्येवाहं त्वां प्रयाचे साञ्जलिः । तदनु स देवोऽपि तदभ्यर्थनया जगडूशाहमहेभ्याय निजाकृत्रिमं रूपं प्रदर्श्य तत्कालमेवालक्ष्यतामायिष्ट । अदृश्यतामुपयाते तस्मिन् देवे स श्रेष्ठी निजोदारमानसे सांसारिकवैचित्र्यस्य सङ्कल्पविकल्पौ कुर्वन् 1. इ - प्रासौ ।
107