________________
श्री जगडूशाह-चरित्रम् 'महाभागधेय! योऽयमेतस्य सन्धिर्दृश्यते, तस्मिंस्तीक्ष्णटङ्कप्रहारेण भिन्ने सति तदन्तः स्थितानि रत्नानि स्वत एव दृश्यानि भविष्यन्ति । ' इत्थं व्याहृततद्भेदमदृष्टपूर्वं भाग्यादुपेतं योगीन्द्रं पुनः पुनः प्रणमन् स जगडूशाह एवमुवाच - योगीश्वर ! सत्यं ब्रूहि भवान् कोऽस्तीति ? सत्यं कश्चिद् योगीश्वर एवास्ति भवान् ? किमुत मदीयप्रभूतभाग्योदयादिहायातः कोऽप्यन्योऽसि ? एतद् बुभुत्सा महती मामुत्सुकयति ।
तदानीं तत्र तावुभावेवाऽऽस्ताम् । अतस्तत्प्रस्तरीयसर्वभेदजिज्ञासया तं योगीश्वरं स श्रेष्ठी सादरमेवमभ्यर्थयत् । नूनमहं जानामि यद् भवान् मदीयपुराकृतसुकृतयोगादेवाद्य मदङ्गणेऽत्रागतोऽस्ति? अतो भवान् मामकमशेषमज्ञानं छिनत्तु । वास्तविकमात्मरूपं मां दर्शयतुतमाम् । इत्थं भक्त्या विनयेन प्रणयमधुरवचनेन च प्रसन्नमना भवन् योगीश्वरस्तमेवं वक्तुमारेभे - श्रेष्ठिन् ! मामिहागतं कमपि योगीश्वरं मावेहि । अहमेतस्या भद्रेश्वरनगर्या अधिष्ठायको देवो भद्रेश्वरोऽस्मि। तावकाऽमितपुराकृतसुकृतयोगादाकृष्टः प्रस्तरेऽस्मिन् स्थितानां सुरत्नानां भेदाख्यानाय समागतोऽस्मि, योगिराजरूपेण तवाङ्गणेऽद्य, इति व्याहृत्य विरमन्तं देवं, स श्रेष्ठी निगदत्येवम्-अहो देव! भवतां कां भक्तिं कुर्यामहम् ? यदहं मनुजः, भवांश्च देवः, अतो मया जानताऽजानता वा तत्र पूज्यस्य देवस्य ते यदपराद्धं, यदकारि चाविनयादिकं तत्सर्वं क्षमस्व । मादृशं साधारणं मानवमुपचिकीर्षन्नत्रागतोऽसि तेन मन्ये यदद्य नूनं मे भाग्यं जजागार । अद्यापि मे पुण्यानि जीवन्ति । तुभ्यमहं किमप्यर्पयितुं नैव प्रभवामि । त्वमेव लोके समेषां सर्वाणि समीहितानि दातुमीशिषे । मेरुसर्षपयोरिव तव मम चान्तरमस्ति । क्वाहं ना? क्व च भवान् देवः, क्व राजा भोजः, क्व च गाङ्गिकस्तैलिकः? मादृशामत्यल्पमतिजुषामल्पसत्त्ववतामुपरि सर्वदा
106