________________
चन्द्रराजचरित्रम्
सप्तमः परिच्छेदः
अघटितविचित्रघटना
कुर्वन्तु पूर्वजन्मसंयोगादेवाऽयं सम्बन्धनिबन्धोऽभूदन्यथा क्व यूयं क्व च वयम् ? । इत्थं मया बहुशो बोधितास्तेऽपि कदाऽऽग्रहाविष्टा दृष्टास्तदा कार्यहानिशङ्कया रूप्यकाणं कोटिशः कोटिशो दानप्रलोभनं दत्तम् । एतत्तु ज्ञायत एव यदिह जगति लोभग्रस्तो विरल एव न भवेदिति कोटिरूप्यकाणां नाम श्रुत्वैव तेषामास्यं तालिकाबद्धमिवाऽभूत् ।
यतः
दानेन भूतानि वशीभवन्ति, दानेन वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात्ततः पृथिव्यां प्रवरं हि दानम् ॥८८॥
ये चैतावत्कालं रक्ताः पीताश्च भवन्त आसन्, त एव सद्यः शैत्यं गताः पुनस्तैरुक्तम्- मन्त्रिन् ! साधु, व्यतीतवार्ता तु यातु परमिदं कथयतु, विवाहः कदा करिष्यते ? यदीदानीमेव तस्याऽपि निश्चयो भवेत्तदा सम्यक् स्यात् । इति वार्तालापेन सचिवान् तान् संतोष्य राज्ञः समीपमानयं पुनस्तदैव तत्राऽऽकारितो दैवज्ञः षण्मासान्तरिकमेकं सुमुहूर्तं निश्चिकाय । राज्ञाऽपि मन्त्रिसत्कृतौ त्रुटिर्न कृताऽतस्तत्समक्षेऽपि तेषां किञ्चिद् वक्तुं साहसो नाऽभूत्। कृतकार्यास्ते प्रस्थातुं सज्जिताश्चास्माभिर्बहुमानं प्रस्थापिताः । तुष्टिलञ्चकरूप्यकाणि तैः पूर्वमेव स्वदेशे प्रेषितानि, ततस्तेऽपि यथाकालं विमलापुरीं गताः । तत्र तैर्निजमहाराजायाऽखिलं वृत्तं निवेदितं कुमारसौन्दर्यवणनं च यथापूर्वश्रुतं चक्रिरे । राजा मकरध्वजस्तद्वृत्तमाकर्ण्य मुदाऽन्वितोऽभूत्ततो राज्ञा कार्यसाफल्याय तेषां मन्त्रिणां प्रशंसां चक्रे । सभायां तेभ्यो रूप्यकलक्षं पुरस्कारं
|| ८६ ।।