________________
चन्द्रराजचरित्रम् - सप्तमः परिच्छेदः
अघटितविचित्रघटना तं न पश्यतीति तत्त्वम् । पुनरन्ये द्रष्टुं कथं शक्ष्यन्ते ? विश्वस्ताः सन्तो भवन्तश्चिन्तालेशमपि न कुर्वन्तु, विवाहार्थं गते सर्वे प्रेक्षिष्यन्ते, सम्प्रति तदसाम्प्रतमस्ति । इत्थं मया बहुबोधितं तदर्थं चेष्टितं च परं तैः कथमपि दर्शनाग्रहो न त्यक्तः । प्रान्ते कमप्युपायमलभमानस्तान स्वगृहमानयम् । तत्र बहुविधं मिष्टान्नादि भोजयित्वा बहुमानं च विधाय विविधवस्त्रभूषणादिदानेन तेषां तुष्टयेऽचेष्टे, किन्तु साफल्यं नाऽगाम् । तैः पुनरहमुक्तः- तमदृष्ट्वा वयमितो गन्तुं न शक्नुमस्तस्मात्तमवश्यं दर्शयतु । तद्वचो निशम्य पुनस्तान संबोधयता मयोक्तम्- महाशयाः ! अल्पवचोनिमित्तं दुराग्रहः कथं क्रियते ? विवसन्तु कुमारोऽतिसुशीलः सुन्दरश्चाऽस्ति । येन भवन्महाराजो भवद्भ्यः क्रोत्स्यति तथा कर्तुं नेच्छामो, यद्यस्माकं वञ्चयितव्यं भवेत्तर्हि जगद् विद्यमानमस्ति । भवतां वागवागुरायां पातस्याऽऽवश्यकं नास्ति, पुना राजकुमारस्य वृत्तं केनाप्यविदितं नास्ति, कृत्स्नं जगत्तस्य सौन्दर्यं सुशीलतां च वेत्ति । तस्य सौन्दर्यादिगुणप्रशंसां श्रुत्वैव भवन्तोऽप्येतावदूरमागता अस्माभिः सुविचार्यैव कार्यं कृतमस्ति । अत्र कथमपि भवतां हास्यं न भविष्यति, अस्माकमयोग्येऽप्यत्र सम्बन्धे मम महाराजस्याऽनुमति विनाऽपि मयैव भवद्वचोरक्षणार्थ बलाद्राज्ञाऽङ्गीकारितः । एतत्सर्वं भवद्भिदृष्टमेवास्ति पुनर्भवन्तोऽल्पनिमित्तं मयि भारं न्यस्यन्ति यत्करणं ममाऽसाध्यं वर्तते । अहं त्वेतदेव कथयिष्यामि यद् भवन्तः सुमुहूर्ते प्रस्थिता येनेदं कार्य सौलभ्येनाऽभूत् । सौभाग्यवती भवद्राजकुमारी शुभाशयेनेधराराधनं कृतवती तेनैवैतादृशो भर्ता तया लब्धोऽस्ति । सम्प्रति भवन्तः कदाग्रहं न
|| ८५ ॥