________________
चन्द्रराजचरित्रम् - सप्तमः परिच्छेदः
अघटितविचित्रघटना कयाऽपि कारयितव्य एव तदा मम राजकुमार्या सह कथं न भवेत् ? आवयोरयं सम्बन्धः सर्वथाऽनुकूलोऽस्ति । यस्य राजकुमारस्य नामोच्चारणं स्वराजकन्यया सह कृतमस्ति, स सदा तदीय एव भूत्वा तिष्ठेत् । यदि लक्ष्मीः स्वयं गृहमायाति तर्हि पश्चाद् वारणं न वरम् । यदि भवन्तो निराशं मां परावर्तिष्यन्ते तदा निश्चयमेष महान् भ्रमो भविष्यति । वयं तु भवन्तमेवं ब्रूमो यदमुं स्वावसरं हस्तान्मा गमय । सचिवोक्तं श्रुत्वा मयोक्तम्एतेऽत्यारादागताः, कतिपयवासरादत्र संतिष्ठमानाश्च सन्ति, तस्मादेषामियमभ्यर्थनाऽवश्यमुरीकर्तव्या, नैराश्यकरणं च नोचितं मन्ये। कुमारयोर्विवाहसम्बन्धो जात्वप्यनुचितो न गणयिष्यते चैतेन सिंहलपुरीविमलापुर्योः सम्बन्धो घनिष्ठतामेष्यति, अतः श्रीमद्भि रियं प्रार्थना ध्रुवमङ्गीकार्या । एवमुक्त्वा महाराजस्योत्तरमप्रतीक्षमाणेन मया श्रीफलं गृहीत्वा विवाहं निश्चित्य यथाऽऽचारं ताम्बूलादिकं जनेभ्यो दापितं, तेन मन्त्रिचित्ते मुद्वीचय उच्चच्छलुः। मम महाराजं विनाऽयं सम्बन्धः सर्वेभ्यो व्यरोचत । इत्थमखिले वृत्ते सुस्थिरे सति मन्त्रिभिरहमुक्तः-श्रीमताऽस्य योग्यतमसम्बन्धस्य स्थिरीकरणेनाऽस्माकं बहूपकृतिः कृता । परं सम्प्रत्येकवारं राजकुमारं दर्शयतु, यथा स्वमहाराजाय समस्तमेतद् वृत्तं सम्यग निवेदयेम। राजकुमारस्य दिदृक्षयाऽऽगमनदिनादेव व्याकुला वयं दौर्भाग्येनैतावत्कालं नाऽद्राक्ष्म । तदानीं मम मिथ्याऽऽश्रयणं कर्तव्यमभूत्तेन ते मयोक्ताः- कुमारस्तु इतः सार्धशतयोजनदूरे मातृकुलमधितिष्ठति, तत्राऽपि केवलयैकधात्र्या सह गुप्तगृहमध्यास्ते । शिक्षकोऽपि बहिःस्थ एव तमध्याप्य गच्छति, सोऽपि
...
|| ८४ ।।