________________
चन्द्रराजचरित्रम् सप्तमः परिच्छेदः स्फुरन्त्युपायाः शान्त्यर्थ- मनुकूले विधातरि । प्रतिकूले पुनर्यान्ति, तेऽप्युपाया अपायताम्
mn
एते सचिवा दूरादागताः सन्ति, अत एतेषां नैराश्यकरणं नोचितम् । अयं सम्बन्ध उत्तमोऽस्ति, एषोऽवसरः पुनः प्राप्तो भवेन्न वा ? कुमारस्य कुष्ठनिवारणार्थं पुनरेकवारं देव्याऽऽराधनं कर्तव्यं, संभवतः सा तं नीरोगं विधास्यति स्वोक्तिश्चाऽपि निर्वाहणीया साहसो न त्याज्यः । एतस्मिन्नवसरे मिथ्याभाषणेऽपि दूषणं नाऽस्ति, मिथ्याभाषणतः सम्पन्मिलति, तत एव प्रतिकूलमप्यनुकूलत्वमेति, अतो मिथ्यातोऽल्पमपि भयं न कार्यं यथा- चौराणामपि सहायका अनेके भवन्ति, तथाऽस्माकमपि सहायको मिलिष्यत्येव । अतः स्तोकापि चिन्ता न कार्या, वयं सर्वं साधु करिष्यामः । । ममेमामुक्तिमाकर्ण्य राजा बभाषे - तव विचारेऽसंमत्या सह कार्येषु बाधनमप्युचितं न मन्ये । अत्र विषये भवते यद्रोचते तत्कुरु, यथा कर्म करिष्यति तथा भोक्तव्यं भविष्यति । यतः
यदत्र क्रियते कर्म, तत्परत्रोपभुज्यते । मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते
अघटितविचित्रघटना
દા
इत्थं विचारेषु कतिचिद्दिनानि व्यतीयुः पश्चादेकस्मिन् दिने मकरध्वजस्य सचिवगणो राजसेवायामुपस्थितः सन्नुवाच- प्रभो ! विचार एवैतानि दिनानि व्यतीतानि भवन्तश्च निश्चितमुत्तरं नाऽदुः । विवाहसम्बन्धश्चोभयोरिच्छया नैकेच्छया भवति । अद्य चत्वारि दिनानि पश्चाद् वा कनकध्वजस्य परिणयं कारयिष्यत्येव । यदा
॥ ८३ ॥