________________
चन्द्रराजचरित्रम् - सप्तमः परिच्छेदः
अघटितविचित्रघटना दत्त्वा ते सम्मानिता मन्त्रिणां युक्त्याऽस्मिन् कार्ये कपटशका तस्य लेशतोऽपि न जाता । इतो मयोपयमसमारोहः प्रारेभे, हस्त्यश्वरथादयः सुसज्जीकृताः, जन्या आगत्यैकत्रिता बभूवुः । नागरिकैः कर्मचारिणो महकारणं पृष्टे विदितकुमारोवाहाः प्रमदमदोन्मत्तास्ते कुमारं विलोक्येक्षणे ताम इत्यमंसत । ततः समन्तात्तद्वार्ता प्रसतुं लगा, कार्यसंभारानवलोक्यैकदा रहस्याहूय राज्ञाऽहं पृष्ट:- मन्त्रिन् ! किमनर्थः क्रियते ? किं यथार्थं सुशीलायास्तस्याः कुमारिकाया जीवनं नाशयिष्यसि ? कुमारमित्थं कियत्कालं गोपयिष्यसि ? पाणिपीडनकाले तद्रूपमवश्यं प्रकटीभविष्यति । तदा प्रेमलालच्छी याद्वाहमस्वीकुर्यात्तधोमुखा वयमिहाऽऽस्यं दर्शयितुमर्हा न भवेम । एतच्छ्रुत्वा मयोचे- राजन् ! चिन्तां न करोतु, यथापूर्वं देवीमाराधयतु साऽवश्यं कमप्युपायं दर्शयिष्यति। ममोक्तिं श्रुत्वा राज्ञा मत्कृतः परामर्शोऽङ्गीचक्रे, तदर्चनं चापि प्रारेभे । ततो देवी पूर्ववदाविर्भूयोवाच- राजन् ! मां कथं वारम्वारमाह्वयसि ? बद्धाञ्जली राजा ब्रूते स्म-मातः ! मया विरोधे कृतेऽपि मन्त्रिणा कुमारस्योपयमो निर्धारितोऽस्ति, तत इदानीं मम लज्जारक्षणं श्रीमत्या एव शये (हस्ते) किल विद्यते। यथा भवेत्तथा कुमारं निरामयं विधेहि, तदर्थमेव श्रीमत्यै कष्टं दत्तमस्ति। कुलमातरं भवती विना मम कष्टं को दूरीकरिष्यति ? देव्युवाच- राजन् ! प्राग्भवस्य वेदनीयकर्मणा तव कुमारो रुग्णोऽस्ति, अतस्तत्कथमपि निवार्य न भवितुमर्हति, परमुपायान्तरेण तवेमा चिन्तां निवारयिष्यामि । शृणुविवाहघने शर्वर्याः प्रथमयामे व्यतीते विमलापुर्यां पूर्वगोपुरत आभाधीशो राजा चन्द्रः स्वविमातुः
|| ८७ ।।