________________
चन्द्रराजचरित्रम्
अघटितविचित्रघटना
सप्तमः परिच्छेदः तत्काल एव राजा चतुरश्चतुरमन्त्रिणो नियोज्य परेद्यवि व्यापारिभिः सत्रा सिंहलपुरीं प्राहिणोत् । तत्र गते व्यापारिणः कनकरथनृपः स्वमन्दिरे तन्निमित्तमावासं दत्त्वोत्तमभोजनादिभिरतिथिसत्कृतिं चक्रे । सन्ध्यायां सदवसरं प्राप्य मन्त्रिणस्तैर्व्यापारिभिः समं राजसमीपमायन् विविक्ते च व्यापारिणो राज्ञेऽखिलं वृत्तं निवेदयामासुः- राजन् ! अनुपमलावण्या राजकन्या प्रेमलालच्छी विद्यते यां दृष्ट्वाऽऽगताः स्मः । राजा मकरध्वजस्तां भवत्कुमारेण परिणाययितुमेतान् मन्त्रिणो भवत्समीपे प्रैषीत् । राजाऽपि सादरं तानुपवेश्य कुशलादिप्रश्नं पृष्ट्वाऽऽगमनप्रयोजनमप्राक्षीत् । तेष्वग्रणीः कुशलश्चैको मन्त्री प्रत्युत्तरं ददत्प्राह- सोरठदेशादायाता राज्ञा मकरध्वजेन प्रेषिताः स्मः । अत्रत्या वणिजो मम महाराजनिकटे भवद्राजकुमारस्य सौन्दर्यप्रशंसामकार्षुस्तथैवाऽन्यैरपि श्राविता, अतस्तत्कथने विश्वस्तो राजा हंसकुल एव हंसस्य जनुर्भवतीत्यमन्यत । अस्य कुमारस्याऽनुरूपा तत्पुत्री रूपवती विदुषी चाऽस्ति तेनाऽनयोर्विवाहसम्बन्धं स्थिरीकर्तुं भवत्सेवायामुपस्थिताः स्मः । अस्माकमऽनुमत्याऽयं सम्बन्धः सर्वथा योग्यो ज्ञायते । राजकुमार्या रूपलावण्यगुणाऽवस्थादि सर्वथैव कुमारस्योपयुक्तमस्ति । अस्माकं महाराजः सोरठदेशस्य भवांश्च सिंहल - देशस्य राजाऽस्ति, ततो युवयोरयं सम्बन्धः कथमप्ययोग्यो नाऽस्ति। भवन्तं प्रति ममाऽनुरोधोऽस्ति यदेतत्सम्बन्धार्थं स्वाऽनुमतिं दत्त्वाऽस्माकमत्राऽऽगमनपरिश्रमं सार्थकं करोतु | मकरध्वजमन्त्रिणः कथनमाकर्ण्य मम कनकरथराजेनोक्तम्- भवतः सर्वं कथनं ज्ञातमभूत्परमीदृक्कार्येषु शीघ्रता नोचिता, धैर्यस्य सुफलं
॥ ८० ॥
-
·