________________
चन्द्रराजचरित्रम् सप्तमः परिच्छेदः
अघटितविचित्रघटना
I
सदैव मधुरं च भवति । अतोऽत्र भवन्तस्तिष्ठन्तु ममाऽऽतिथ्यं च गृह्णन्तु, वयं सम्यग् विचार्य भवत्प्रार्थनाया उत्तरं दास्यामः ।
यतः
कर्मायतं फलं पुंसां, बुद्धिः कर्मानुसारिणी । तथापि सुधिया भाव्यं, सुविचार्यैव कुर्वता
૫૫
एतन्निशम्य मन्त्रिणोक्तम् - पृथ्वीश ! मामको महाराजोऽस्मिन् सम्बन्धविषयेऽत्युत्सुकोऽस्ति, अतस्तेनैतावद्दूरं वयं प्रेषिताः, सम्प्रति ममैनां प्रार्थनामस्वीकृत्याऽस्माकं नैराश्यकरणं नोचितमियं मेऽभ्यर्थनाऽस्ति । तदा राज्ञा बभाषे - भवदुक्तिर्यथार्था परं सम्प्रति कुमारोऽतिलघुवयस्कोऽस्ति तेनाऽत्राऽवस्थायामियं चर्चा नोचिता, यदा वर्धिष्यते तदा द्रक्ष्यतेऽधुना तु तेन प्रासादोऽपि न दृष्टो निरन्तरं गुप्तगृहमेवाऽधितिष्ठति । मया क्रोडे कृत्वा कदापि लालितोऽपि नास्ति, पुनर्भवतां राजकुमारीमपि नाऽद्राक्षमतः कन्यामनवलोक्य विवाहः कथं भवेत् ? यदि भवन्महाराजोऽरं परिणाययितुमिच्छुकोऽस्ति तर्हि वरान्तरमन्वेष्टुमर्हति न मे तत्र काऽपि हानिरस्ति । ततो मन्त्रिणोक्तं नहि महाराज ! अस्माकमत्र स्थातुं काऽपि क्षतिर्नाऽस्ति, स्थिरतया विचार्य पश्चाछ्रीमन्तो यदुत्तरं दास्यन्ति, तदेव स्वराज्ञे निवेदयिष्यामि । परन्तु भवतः प्रतीयं मे प्रार्थना यदयं विवाहसम्बन्धः स्वर्णसुगन्धयोर्मणिकाञ्चनयोः संयोग इवाऽस्ति, अतोऽस्वीकृतिं मा कुर्वन्तु । मन्त्रिवचः श्रुत्वा राजा तान् विसृज्य मां चाऽऽहूयाऽपृच्छत् - कथयतु सचिव ! सम्प्रत्यस्माभिः किं कर्तव्यं ? वैदेशिकानित्थं कियत्कालपर्यन्तं छलयिष्ये? कस्यचिन्महाराजस्य रूपवत्या कन्यया सह कुष्ठिनो राज
।। ८१ ।।