________________
चन्द्रराजचरित्रम्
सप्तमः परिच्छेदः
अघटितविचित्रघटना
I
वणिग्भ्यो मोदमानो राजा पुरस्कारं दत्त्वा तान् विसर्जयामास । तदानीं तस्य सौन्दर्यविषये निःसन्देहो राजा प्रेमलायाः परिणयं मनसि तेन कनकध्वजकुमारेण सह स्थिरीचकार । तावत्कालमपि ससन्देहो मन्त्री नृपमवक्- अवनीश ! दृग्दृष्टे श्रवणश्रुते च महदन्तरं भवति । एतैः श्रुतं कथ्यते, परं यदि मदीया भृत्याः पश्येयुस्तदा तथ्यं मंस्ये । तदैव तस्य चर्चाऽपि कर्तव्या, नेदं कार्यमल्पं, यतोऽत्रैव कृत्स्नजीवनस्य सुखःदुखे निर्भरे स्तः, ततोऽत्र सम्बन्धे पूर्णविचारः कार्यः ।
यतः
-
सगुणमपगुणं वा कुर्वता कार्यमादौ, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः
॥८२॥
-
तस्मिन् काले ते व्यापारिणस्तत्रैवाऽऽसन्नतो मन्त्रिणो विचारं मत्वा स्वनिकट आहूतास्ते राज्ञोचिरे - भवद्भिर्ममैकं कार्यं कर्तव्यं भविष्यति, तदेतद् भवन्तो मन्त्रिभिः सह सिंहलपुरीं गत्वा राजकुमारमवलोक्य कन्यायोग्यं ज्ञात्वा श्रीफलं समर्प्य विवाहं निश्चिनुयुस्तदा भवतां चिराय ऋणी भविष्यामि । तदा व्यापारिणो जगदुः- राजन् ! अल्पस्य हेतोर्भवत्प्रार्थनां विनाऽपि करणे नाऽस्माकं काऽप्यापत्तिरस्ति । यथेयं भवत्कुमारी सर्वगुणसम्पन्ना तथा सोऽपि कनकध्वजकुमारस्तेन विधात्रा द्वन्द्वमिदं समकालमुदपादीति जानीमहे । मन्त्रिणोऽस्माभिः साकं प्रेषयन्तु कथञ्चित्कार्ये जातेऽतिहर्षो भविष्यति, तत्र यथासाध्यं यतिष्यामहे ।
।। ७६ ।।