________________
चन्द्रराजचरित्रम - सप्तमः परिच्छेदः
अघटितविचित्रघटना गोपनीयं प्रयत्नेन, रत्नं हि विबुधैः सदा । परकीयं हि तद् दृष्ट्या, द्वेषं यान्ति नराधमाः ॥८१॥
इति कुमारस्येत्थं रक्षणं युक्तमेवाऽस्ति, शनैः शनैरियं वार्ता देशान्तरेऽपि प्रससार | परमस्य गुप्ततत्त्वस्य रहस्यमन्ये कथं जानन्तु ? कियत्कालाऽनन्तरमस्यां विमलापुर्यां सिंहलपुरस्था व्यापारिणो व्यापारार्थमागताः । अत्रैकस्मिन्नहनि ते राज्ञा मकरध्वजेन सह मिलितुं तस्य राजपरिषदि समुपस्थिता आसन्। राजाऽपि तेषां यथोचितं सम्मानं चकार तदैव स्वपितुर प्रेमलालच्छी समागत्याऽध्यास्ते स्म । तस्या अलौकिकं सद्रूपलावण्यचातुर्यादिकं पश्यन्तस्त आश्चर्यमीयुः । राजा मकरध्वजस्तेषां देशस्य राज्ञश्च नाम पप्रच्छ, त ऊचिरे- सिन्धुदेशवास्तव्या वयं, तत्राऽलकापुरीतुल्या सिंहलपुर्य्यस्ति । तत्र कनकरथनामा राजा राज्यं शास्ति । तस्य कन्दर्पोपमः कनकध्वजनामा कुमारोऽस्ति । तस्य गुप्तमन्दिरे रक्षणं क्रियते, जनास्तस्य दर्शनार्थं प्रतिदिनं लालायिता भवन्ति । परं बहिरानयनेन कदाचित्केषाञ्चित्कुदृक्पातो भवेदिति शङ्कया सभयो नृपो बोभूयते । अतोऽद्यावधि केऽपि न तं प्रेक्षन्त, परं स सौन्दर्येण मदनोपमः श्रूयते । इति वणिजां वचो निशम्य राजा मकरध्वजो मुदमगात्तेभ्यो वस्त्रादिकं दत्त्वा विसर्जनानन्तरं सचिवमाकार्य तस्मै कनकध्वजस्य रूपवर्णनं श्रावयति स्म । एतत्कथनकारणं पृष्टे मन्त्रिणि नृपो जगादबहुदिनेभ्यः प्रेमलाया वरोऽन्विष्यते, तज्ज्ञातं नाऽस्ति किम् ? अद्याऽऽकस्मिकममुमुदन्तं श्रुत्वा मम विचारोऽभूधदि नैगमोक्तमृतं स्यात्तर्हि तेनैव कुमारेण सह तस्याः परिणयं कथं न कुर्याम् ?
|| ७७ ।।