________________
चन्द्रराजचरित्रम् - सप्तमः परिच्छेदः
अघटितविचित्रघटना राइयै वासव्यवस्था कृता, यथा कृपणस्य धनमधिधरित्रि जनैरदृश्यमानं तिष्ठति, तथैव सापि तस्थौ । गर्भाऽवस्थायां पुनस्तां केऽपि द्रष्टुं न प्रबभूवुः, पूर्णे मासे राज्ञी सुखेन कुष्ठिनं सुतं सुषुवे। सुखदं संवादं श्रुत्वा राजा परां मुदमाप, कतिचिद्दिनानि च महोऽकारि | समन्ताद् वैजयन्तीतोरणादिभिः प्रतिगृहं मङ्गलाऽऽचारैश्च नगरी शुशुभेतराम् । नागरिका राजसभामुपसृत्य राज्ञे वर्धापनं ददिरे, राजाऽपि तेभ्यो यथोचितं सत्कारपुरस्कारं वितीर्य तान् सममंस्त । द्वादशेऽहनि कुमारस्य कनकध्वज इति नाम चकार, परं स्वकर्मयोगेन स जनिदिनादेव कुष्ठरोगेण पीडितो भवितुं लगः । तदर्थं कृतोऽपि विविधोपायः सफलत्वं नैत् । आकरे रत्नानीव तत्र तलगृहे सद्यत्नेन कुमारो ववृधे । तत्सन्निधौ कपिलाधात्र्या विनाऽन्येषां गमनाऽऽज्ञा नाऽऽसीत्, सैव कुमारस्य लालनपालनं कृतवत्यस्ति । शरीरदूषणेन कदापि बहिरनिर्गच्छन्तं कुमारं ज्ञात्वा जनैराश्चर्यममन्यत । यथा यथा कालो निरगच्छत्तथा तथा जनानां राजकुमारस्य दर्शनेच्छा प्रैधिताऽऽसीत् । अनेकशो जना वस्त्राऽऽभूषणादिकं गृहीत्वा राजसभामागत्य कुमारस्य दर्शनेच्छां प्रकटीचक्रिरे, परं ते सदैव निराशा एव परावर्तन्त । तदा कुमारोऽतिसुन्दरोऽस्तीति सर्वानचकथं, केषाञ्चिद्दुदृष्टिः कुमारोपरि मा पतत्विति जातु न निष्कासयामि । प्रवृद्धः सन् यदा स निर्गमिष्यति, तदा तं सर्वे द्रक्ष्यन्त्येव, मम वाक्ये विश्वस्तास्ते सर्वेऽपि राज्ञो भाग्यवर्णनं कर्तुं लग्नाः- यं द्रष्टुं सहस्रांशुरप्यसक्तस्तमवलोकितुं वयं के ? इति मत्वा सर्वे सन्तुष्यन्ति स्म । स चिरजीवी भवतु कदाचिद्दर्शनं भविष्यत्येव, यतः शास्त्रेऽप्युक्तम्
।। ७६ ॥