________________
चन्द्रराजचरित्रम् - सप्तमः परिच्छेदः
अघटितविचित्रघटना अतो मया त्वत्कर्मानुसारतः सम्यगेव वरो दत्तस्तत्र कथमपि व्यतिक्रमो न भविष्यति । तदा तन्निशम्य म्लानमना राजोचेयथेच्छसि तथा कुरु, परं कुष्ठिनं पुत्रं कथं यच्छसि ? तत्कारणं कथय । देवी जगाद- राजन् ! अस्य कारणकथने मे काऽप्याऽऽपत्तिर्नाऽस्ति । शृणु-महर्द्धिकनामा मम पतिरस्ति, यस्यावां द्वे भार्ये स्वः, द्वे अपि सुखेन कालं गमयावः । कदाचिन्मे पतिर्मामनुक्त्वा सपन्यै हारमेकमदात्तस्मिन् क्षणे मम हृदयेऽक्षमाग्निर्जज्वाल, कलहं कुर्वत्योरावयोः पतिस्तदानीमागतः, वल्लभायाः सपन्याः पक्षं जग्राह । तेनाहं विमनस्का जाता, तदैव तवाऽर्चनयाऽऽकर्षिताऽहमत्राऽऽगता | तस्मिन् काले विमनस्कतया वरदाने मम मुखात्कुष्ठिपुत्रस्य वार्ता निःसृता । अस्माकमास्यानिःसृतं वचो जात्वपि विपरीतं न भवति, तच्च मानवानां भाग्यानुसारमेव निर्गच्छति । यतःयदुपात्तमन्यजन्मनि, शुभमशुभं या स्वकर्मपरिणत्या । तच्छक्यमन्यथा नहि, कर्तुं देवासुरैरपि वै
अतो हे राजन् ! त्वया चिन्ता न कर्तव्या । राजाऽप्यचिन्तयत्-अपुत्राऽपेक्षया कुष्ठिनोऽपि पुत्रस्य भवनं केनचिदंशेन युक्तमेवाऽस्ति, ततो देवी तदानीमेवान्तर्दधे | राजाऽप्याराधनासमाप्त्यनन्तरं मम समीपमियाय, स च वरप्राप्तेरखिलं वृत्तं निवेदयामास। तदा राजानं सान्त्वयन्नहमवादिषम-प्रथमं पुत्रस्तु भवतु, यदि तस्य कुष्ठो भविष्यति, तदा तस्य निवारणचेष्टाऽपि करिष्यते । ममाऽनया सान्त्वनया राज्यपि मुमुदेऽनन्तरं तस्मिन्नेव दिने राज्युदरे गर्भसंचारो बभूव । अतो राज्ञा यत्नतयैकत्र मन्दिरस्य गुप्ततले
|| ७५ ।।