________________
चन्द्रराजचरित्रम् सप्तमः परिच्छेदः
अघटितविचित्रघटना तन्निशम्य साञ्जली राजाऽवक्- हे प्रतिपाल्ये मातः ! प्रसन्नतया कृपां विदधत्यपि दूषितं जगन्निन्दापात्रं पुत्रं कथं प्रयच्छति ? यदि दातव्योऽस्ति तर्हि सुलक्षणान्वितं निर्दोषं पुत्रं ददातु । देव्यवोचत् - राजन् ! चतुरो भूत्वाऽपि त्वं कथं मूर्खायसे ? यो यत्कर्म करोति स तदनुरूपमेव फलं भुङ्क्ते ।
यतः
-
कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम्
-
॥७७॥
जिनेश्वरचक्रवर्तिबलदेववासुदेवप्रतिवासुदेवसदृशानामपि
कृतकर्म भोक्तव्यमेव भवति, तदा सामान्यपुरुषाणां का वार्ता ?
यतः
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे, विष्णुर्येन दशावतारगहने क्षिप्तो महासंकटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः, सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे
॥७८॥
यश्च सर्वं सुकृतमेव करोति स एव निरन्तरं सुखभाग् भवति परं पुण्यक्षये तु सर्वमेव क्षीयते ।
यतः
तायच्चन्द्रबलं ततो ग्रहबलं ताराबलं भूबलं, तावत्सिद्ध्यति वाञ्छितार्थमखिलं तावज्जनः सज्जनः । मुद्रामण्डलतन्त्रमन्त्रमहिमा तायत्कृतं पौरुषं, यावत्पुण्यमिदं सदा विजयते पुण्यक्षये क्षीयते
।। ७४ ।।
॥७९॥