________________
चन्द्रराजचरित्रम् - सप्तमः परिच्छेदः
अघटितविचित्रघटना इति त्वया ज्ञायत एव, इत्थं राज्ञी सान्त्वयित्वा, राज्ञाऽहमाहूतः सर्वा वार्ता च न्यगद्यत, गम्भीरतया विचार्याऽष्टमतपसा कुलदेवीमाराध्य, तां प्रसाद्य, पुत्रप्राप्त्यै मया विचारोऽदायि । राज्ञेऽप्येष विचारो व्यरोचत, अतः स द्वितीयदिनादेव कुलदेव्याराधनं प्रारेभे । तृतीयदिने कुलदेवी प्रादुरासीद्यस्याश्चरणौ भूमितश्चतुरङ्गुलिप्रमाणमुत्थितावास्ताम् । सुरभिपुष्पसजाऽऽकलितकण्ठा स्थिराऽक्षिकनीनिका प्रसन्नवदना वस्त्रालङ्कारभूषितकाया साऽभाणीत्- राजन् ! तवाऽऽराधनया प्रसन्नाऽस्मि सुखेन वरं वृणीष्व, तव मनःकाममवश्यं पूरयिष्यामि । देव्याः करुणारसभरभृतं वचनं श्रुत्वा बद्धाञ्जली राजा प्राह- मातः ! त्वं कुलवृद्धिकारिणी, समृद्धिदायिनी दुःखहन्त्री सर्वाशापूरयित्री चाऽसि, अतो मया पुत्रार्थ तवाऽऽराधना कृता । यतो यस्याऽङ्गणे पुत्रार्थं गृहे साधुनिमित्तं, हृदये ज्ञानार्थं चाऽवकाशो न भवति, तस्येह जननमजननं च समं भवति । मातः ! पुत्रार्थं मम याचनाऽवश्यमङ्गीकार्या, यदि मे पुत्रो न भविष्यति, तदा भवत्या आराधनं कः करिष्यति ? कथं वा भवती मे कुलदेवी गणयिष्यते ? रत्नाकरतटस्थोऽपि जनो यदि दारिद्र्यान्न मुच्येत, तर्हि रत्नाकरस्य लज्जास्पदमेव, तथैव ममाऽप्यपुत्रत्वं भवत्या एव त्रपाजनकं भविष्यति । यद्यस्य सेवकस्योपरि प्रसन्नाऽसि तर्हि वस्त्वन्तरनिरपेक्षस्य राज्याग्रहेण कृताराधनस्य मे पुत्ररत्नमवश्यं देहि । श्रीमत्या दयालेशतोऽपि मम मनोरथः सफलीभविष्यतीति प्रत्ययोऽस्ति । तदाकर्ण्य सन्तुष्टा कुलदेव्युवाच - राजन् ! त्वत्पुण्ययोगेन तव मनोरथो निश्चयं सेत्स्यति द्रुतमेव पुत्रं लप्स्यसे, परं कुष्ठी पुत्रो भविष्यति ।
|| ७३ ।।