________________
चन्द्रराजचरित्रम्
सप्तमः परिच्छेदः
अघटितविचित्रघटना
सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव संपदः ॥७३॥
-
आभानरेशस्येदमाशापूर्णं वचो निशम्य हिंसकमन्त्री निजगाद - राजन् ! अधिसिन्धुतटं सिन्धनामदेशे महती रमणीया च सिंहलपुरी विराजते, यत्र जनिमन्तो जना भाग्यभाजो भण्यन्ते। यस्या भवत्कृतपूर्वसंभाषः पतिरस्ति, तस्य राज्ञी कनकवती, चाऽहं सचिवो हिंसकनामाऽस्मि । राज्यस्याऽखिलं कार्यं ममाऽधीनमस्ति ममाऽऽज्ञां विना तत्रत्यं तृणमपि विचलितं कर्तुं केऽपि न प्रभवन्ति, मम राज्ञः समीपे चतुरङ्गिणी सेना महदैश्वर्यं प्रजाश्च धनधान्यपरिपूर्णाः सन्ति । तत्र दरिद्रताया नामापि न श्रूयते यत्राऽगणितविबुधाः स्त्रियश्चाऽमराङ्गनाप्रतिमाः सुशीलाः पतिभक्तिपरायणाः शान्तप्रकृतयश्च सन्ति । कदाचिद्राज्ञी कनकवती प्रासादमधिष्ठिता पुत्रार्थं चिन्तयन्ती बहुशोकसंजाताश्रुधाराभिरार्द्रवसना शीतोच्छ्वासं निःसारयन्ती निर्जले शफरीव व्याकुलाऽभूत् । स्वामिन्यास्तादृशीमवस्थां विलोक्य काचिच्चेटी धावमाना राजानमुपसृत्याऽखिलं वृत्तान्तं निवेदयामास । राजाऽपि द्रुतमागत्य तां समाश्वास्य पप्रच्छ- अयि चन्द्रानने ! कथमौदासीन्यमेषि ? किं केनाऽपि तवाऽऽज्ञोल्लङ्घनं कृतं ? तर्हि वद, अवश्यं तं त्वरितं कठोरं दण्डयिष्यामि । औदासीन्यस्य कारणं शीघ्रं ब्रूहि, तदाकर्ण्य कनकवत्युवाच- प्राणेश ! भवत्कृपातो मम कस्याऽपि वस्तुनस्त्रटिर्नास्ति । केऽपि ममाऽज्ञोल्लङ्घनं नाऽकार्षुः पुनर्भवन्तमिव पतिं प्राप्य प्रत्यहं नूतनस्यैव वस्तुन उपभोगं करोमि । इत्थं सर्वं सुखमेवाऽस्ति किन्तु पुत्रमन्तरेण सर्वमपि सौख्यं दुःखीयते ।
|
,
।। ७१ ।।