________________
चन्द्रराजचरित्रम् - सप्तमः परिच्छेदः
अघटितविचित्रघटना कथं न्यस्यथ ? तया मम परिणयः किं कदाचिदपि संभवति ? मयि तादृशी योग्यताऽपि नाऽस्ति, तथापि कथञ्चित्कृतेऽपि पाणिग्रहेऽनन्तरं पुनर्भवते समर्पणं मया कथं संभविष्यते ? इत्थं राज्ञा चन्द्रेण प्रतिबोधितेऽपि हिंसकमन्त्रिणि सिंहलनरेशे च तद्वचनस्य प्रभावो लेशमात्रमपि नाऽपतत् । तौ पूर्ववत्तस्य प्रार्थनां कृतवन्तावेवाऽऽस्तां। प्रान्ते चन्द्रो हिंसकमन्त्रिणं विजनमानीयोवाचभवन्तोऽमुमनुचितभारं महिमापहारं मयि कथं निदधति ? | यतःअकार्य तथ्ये या भवति वितथे या किमपरं, प्रतीतो लोकेऽस्मिन हरति महिमानं जनरयः । तुलोत्तीर्णस्याडपि प्रकटनिहताशेषतमसो, रवेस्तादृक् तेजो न हि भवति कन्यां गत इति ॥७२॥
__ अद्य प्राथमिक एवाऽऽवयोः संस्तवोऽभूत्तदाऽऽधारेणैव मयैतदनुचितं कार्य कारयितुमिच्छन्ति, किन्त्वनेन कोऽपि लाभो न भविष्यति । सुन्दरीतमायाः प्रेमलायाः कुष्ठिनो राजकुमारस्य कनकध्वजस्य कण्ठे बन्धनं महत्पापमस्ति । अस्य विवाहस्य विचारः सर्वथा त्याज्य एवेति मे मतिः, यद्येवं कर्तुं न शक्यते तर्हि स्वदेशाऽऽवासौ [श्रेयसौ], तव एषोऽनुचितविचारश्च कथमभूत्तत्कथय ? यदि सकलं तथ्यवृत्तान्तं निश्छलं कथयिष्यसि, तदा भवत्प्रार्थनायाः परामर्श करिष्यामि । यतोऽविचार्यकारी दुःखभाग भवतीति सिद्धान्तसारः, यतः
॥ ७० ॥