________________
चन्द्रराजचरित्रम् - सप्तमः परिच्छेदः
अघटितविचित्रघटना ब्रूहि । राज्ञश्चन्द्रस्यैतत्प्रश्नं श्रुत्वा सिंहलाधिपो मन्त्रिणमभिसंकेतयति स्म । ततो मन्त्री प्राह- हे आभानरेश ! भवान् मम त्राता, आशायाश्चैकमात्रं स्थानमस्ति । तस्मात्कमपि विषयं भवतो गोपयितुं नेच्छामि । पादयोघुघुरून् बद्ध्वा नर्तितव्यमस्त्येव पुनरवगुण्ठनस्य प्रयोजनमेव किम् ? भवते यथार्थकथने न मे काप्यापत्तिरस्ति । कुमारकनकध्वजाय राजपुत्रीं प्रेमलालच्छी परिणयतु, एतदर्थमेव भवानस्माभिराकारितोऽस्ति । इयमेवाऽऽस्माकीना प्रार्थना वरिवर्ति चैतदर्थं विश्वासोऽस्ति, यन्मामकं कार्यं भवानवश्यं करिष्यति । एतच्छ्रुत्वा चन्द्र आह- किमेतद् यूयं कथयथ ? प्रेमलालच्छी सिंहलकुमारः परिणेतेति श्रुत्वा तदुत्सवं द्रष्टुमेवाऽहमिहाऽऽयातः। मादृशोऽन्येऽपि समागता दर्शकाः प्रेमलादेव्याः सिंहलकुमारेण सत्रोद्वाहो भविष्यत्येवं वदन्ति । परं कनकध्वजस्तां कथं न परिणेष्यति ? इति कृपया मां बोधयतु । तत्र तस्य का वाऽऽपत्तिः? ययाऽमुं भारं मच्छिरसि प्रक्षिपति भवान् । एतन्निशम्य मन्त्रिणोचेराजन् ! कुमारकनकध्वजः पूर्वजन्मकर्मविपाकेन कुष्ठ्यस्ति, एतद्वृत्तं कस्मा अपि वक्तव्यं नाऽस्ति । कथमपि तस्य पाणिग्रहस्तया समं निश्चितोऽतःपरं तस्य निर्वाहो भवत्करकमलेऽस्ति । प्रबलवातेन मध्ये समुद्रं नीयमानाया नावस्तटानयनमिव सिंहलनरेशस्य लज्जाया रक्षणं भवत एव कराम्बुजेऽस्ति । एवं ब्रुवन्तं मन्त्रिणं चन्द्रोऽवोचत् कुष्ठीभूतस्य कुमारस्य परिणयो भवता कथं स्थिरोऽकारि ? राजकुमार्या समं काऽपि शत्रुताऽऽसीत्किम् ? यतस्तस्याः परिणयः कुष्ठिना सह कारयितुमागताः। इत्थं तस्या जीवितं कथं व्यर्थीकुरुथ ? अमुं पापभारं च मयि
||६६ ॥