________________
चन्द्रराजचरित्रम्
सप्तमः परिच्छेदः
स्वाचाराः कति सुन्दराः कति कति प्राज्यप्रतिष्ठावराः, किंत्येको विरलः परोपकरणे यस्याऽस्ति शक्तिः सदा ॥ ७० ॥
-
अघटितविचित्रघटना
पश्यतु-कृत्स्नं जगज्जगच्चक्षुः प्रकाशयति, पादपाः पुष्पाणि फलानि च ददति, चिन्तामणिरत्नं मनोवाञ्छितं फलं प्रयच्छति, गावस्तृणमपि जग्ध्वा पयो ददति, परमेतेषां प्रत्युपकारकरणे केऽपि सक्ता भवन्ति ? तथैव महोपकारिषु भवानपि परमोपकारी पुरुषोऽस्ति, इत्थं भवादृशाः परोपकारिणः सज्जनाः परिमिता भवन्ति । भवदनुकम्पामपेक्षमाणा वयमाशयोपविष्टाः स्मोऽस्मदीयाशां श्रीमानवश्यं सफलयिष्यतीति विश्वस्मः ।
यतः
शास्त्रं बोधाय दानाय धनं धर्माय जीवितम् । वपुः परोपकाराय, धारयन्ति मनीषिणः
॥७१॥
अस्मिन् काले तत्र सिंहलपतिस्तस्य राज्ञी, कनकध्वजनामा तस्य कुष्ठ पुत्रः, हिंसकमन्त्री, कपिलाधात्री, राजा चन्द्रश्चैतेभ्योऽन्ये केऽपि नाऽऽसन् । तदा ते सर्वे तथा शोभामावहन्ति स्म, यथा पञ्चेन्द्रियैः सह मनः शोभां प्राप्नोति, विविक्तं ज्ञात्वा राजा चन्द्रस्तं प्रोवाच- हे सिंहलनरेश ! भवता यद् गदनीयं तत्स्फुटमुच्यतां यतो भवतः स्पष्टवचनं विना न मया बुध्यते, बहिर्विवाहोत्सविता अन्तश्चिन्तिता इव यूयं लक्ष्यध्वे । भवतो यथातथ्यं भेदमज्ञात्वा विचारं विना कार्यं कर्तुं कथं सक्तो भवेयम् ? इतश्च मे गोसर्गतः पूर्वमेवाऽऽभापुरी गन्तव्याऽस्ति । अतः कर्तव्यं कार्यं द्रुतमाज्ञापय, मम नामधामकुलादीनि च कथमज्ञायि ? तदपि
।। ६८ ।।