________________
चन्द्रराजचरित्रम्
सप्तमः परिच्छेदः
अघटितविचित्रघटना
अस्तु, यत्कर्त्तव्यं तदाऽऽज्ञापयतु । भवद्भिश्चन्द्रार्थं कथं व्याकुलीभूयते ? किमिह जगति परैर्भवत्कार्यं साध्यं न भवेत् ? साधु साधु सम्प्रति वक्तव्यमुच्यताम् । आभानगरीवास्तव्योऽहमपि चन्द्रसाध्यं कार्यं कर्तुं शक्नोमि । तदाभापतेर्वचनं श्रुत्वाऽयमेव राजा चन्द्रो नाऽन्य इति सिंहलाऽधिपो विश्वसिति स्म तेन नृपः परं मुमुदे निजं मन्त्रिणमभिददर्श च । मन्त्र्युवाच - हे राजन् ! आभानरेशो भवतः सकलां चिन्तां दूरीकर्तुमर्होऽस्ति । अनेन सह कोऽपि विषयो गोपनीयो नास्ति, स्वाऽभिप्रायमेनं स्पष्टं कथयतु, यतो लज्जया विषयमप्रकाश्य कार्यं नैव सेत्स्यति । यतो धनधान्यI विद्यासंग्रहाहारव्यवहारधर्मकार्यादिषु लज्जां विहायैव सुखी
भवेज्जनः ।
मन्त्रिणो वचनं श्रुत्वा राजा चन्द्रश्चेतसि चिन्तयामासएतेषामान्तरिकाऽभिप्रायः क इति न ज्ञायते, न जाने किं कार्यं कर्तव्यं भवेत् ? मया निष्पत्स्यते न वेति ? इदानीं त्वहमेतेषां पञ्जरे नितान्तं पतितोऽस्मि । एते सर्वे धूर्ता वञ्चका इव दृश्यन्ते, परमधुना त्वेतेषां वचनश्रवणं तूष्णीं तत्करणं चाऽन्तरा नाऽन्योपायो दृश्यते । इत्थं विचारयन्तं चन्द्रमवलोक्य सिंहलपतिनोचे - राजन् ! मा चिन्तीः न वयं धूर्ता यतो भवन्तं वञ्चयिष्यामः, स्वान्ते स्वल्पमपि संदेहं मा गाः । भवादृशान् परोपकारिपुरुषान् जननी विरलान् जनयति ।
यतः
विद्वांसः कति योगिनः कति गुणैर्वैदग्ध्यभाजः कति, प्रौढा मत्तकरीन्द्रकुम्भदलने वीराः प्रसिद्धाः कति ।
।। ६७ ।।