________________
चन्द्रराजचरित्रम् - सप्तमः परिच्छेदः
अघटितविचित्रघटना तदाचरणान्येव तान प्रकटयन्ति । यथाऽलाबूर्जले निमज्जयन्तु जनाः, परं ता ऊर्ध्वभवनेन विना न तिष्ठन्ति । कस्तूरी सुरभिणा स्वयमेव ज्ञेया भवति, तथा भवानप्यस्ति । वयं चिराद् भवदागमनमार्ग प्रतीक्षमाणा आस्म, अद्योचितसमये भवदागमनमभूत् । अधुना स्वापनुतिस्त्यज्यतां, मम चैकं कार्यं कृत्वा मां शावतिकाऽऽधम
येनाऽनुगृहाण | उभयोरित्थं वार्तालापे भवत्येव सिंहलराजस्य हिंसकनामा मन्त्री तत्राऽऽजगाम स च महान दुर्बुद्धिः कपटी कुटिलः कदाग्रही चाऽऽसीत् । मिथ्यावल्गनं तु तस्य प्रधानो धर्म इवाऽऽसीदिति चाऽऽगच्छन्नेव चन्द्रं प्रणम्य, स्वासनं गृहीत्वा स्वकौटिल्यप्रकटनमारेभे । प्रसन्नवदनः स प्राह- हे नरेश्वरचन्द्र ! अद्याऽस्माकं भवदर्शनेन परमानन्दो बभूव, सम्प्रति भवता मम महाराजस्याऽऽज्ञाऽङ्गीकर्तव्यैव भविष्यति, यतो वयं न खलु बालका यद् भवद्वाक्प्रपञ्चे पतेम । अतः सम्प्रति समयातिक्रमणं न क्रियता, पुनर्मम कार्यसम्पादनं विना भवतो गमनमसंभवमित्यपि जानीहि । अस्माकं भवतो महती आशा वर्वर्ति, कस्याश्चित्कल्पनाया आधारेणाऽस्माभिर्भवान, बलान्निगृह्य नाऽऽनायि, किन्तु देव्या वचनेनैव भवन्तमबोधि । कार्यमनल्पं समयश्च स्तोकोऽतोऽधुनाऽस्वीकारं मा कृथाः, रात्रेरधं व्यतीयाय भवता च कार्य कारयितव्यमस्ति, पुनः कार्यमपि महन्न कथयामि । भवदाग्रहाधिक्यमप्यनुचितं तस्मात्प्रतारणमपि भवता वर्जनीयं, मां चाऽऽज्ञापय यथा नैजी प्रार्थनां भवते निवेदयेयम् । हिंसकमन्त्रिणः स्फुटमिदं कथनं निशम्य राजा चन्द्रः परमं द्वैविध्यमवाप । तदानीं स किञ्चित्कालं स्वीकाराऽस्वीकारविचारे निमग्नः सन् प्रान्तेऽचकथत्
|| ६६ ।।