________________
चन्द्रराजचरित्रम् सप्तमः परिच्छेदः
अघटितविचित्रघटना
|
कदाचिदवसर आयास्यति, तदा भवन्तो द्रक्ष्यन्ति, यद्वयमपि प्राघुणिकानां सत्कृतौ केभ्योऽपि न्यूना न स्मः । इत्थं सिंहलाधिपः स्वकीयां सर्वां वार्तां तं चन्द्रनृपमकथयत्, किन्तु तस्य कथनसारांशः किमिति राजा चन्द्रो न बुबुधे । स चैभ्यः सर्वेभ्योऽपि दूरावस्थानेनैवात्मनः श्रेयोऽमन्यत । अतः स जगाद - हे राजन् ! भवांश्चन्द्रभ्रमेणेत्थं मामवरुध्य कथं सम्मानयति ? अहमेको वैदेशिकः पथिकोऽस्मि । श्रीमन्तो महान्तो राजानोऽतीव निपुणा भूत्वाऽपि कथमित्थं मुह्यथ ? आवयोः कश्चित्संस्तवोऽपि नास्ति । चन्द्रस्तु पूर्वदिशः स्वामी, अहं च साधारणः क्षत्रियकुमारोऽस्यां स्थितौ ज्ञात्वाऽप्येवंकारं वार्तां कथं कुरुथ ? कदाचिन्मम चन्द्रस्य च रूपवयःसाम्यं दृष्ट्वा भ्रान्तौ पतिताः स्थेति ज्ञायते । इह जगति बहवः सरूपाः समानवयस्काश्च दृश्यन्ते, परं तेषां गुणमविज्ञाय तैः सम्बन्धस्थापनं न वरम् । कर्पूरलवणयोरौज्ज्वल्यसाम्येऽपि तयोर्गुणे गगनपातालवद् भेदो भवति । परमवसरे प्राप्ते तयोः सत्यस्वरूपमवगम्यत एव ।
यतः
न विना मधुमासेन, अन्तरं पिककाकयोः ।
वसन्ते च पुनः प्राप्ते, काकः काकः पिकः पिकः ॥६९॥ अतो भ्रमे मा पततु, मम च कृपया गमनायाऽनुजानीहि । एतदावर्ण्य सिंहलाधिप आह- राजन् ! इत्थं वार्तयाऽहं प्रतारितुं न शक्यते, मम सम्यग् ज्ञातोऽभूद्यद् भवानेवाऽऽभानरेशोऽस्तीति। यतः सत्पुरुषाः सल्लक्षणेन कदाचिदपि तिरोहिता न तिष्ठन्ति,
।। ६५ ।।