________________
चन्द्रराजचरित्रम् - सप्तमः परिच्छेदः
अघटितविचित्रघटना भवेत्तत्तत्रैव कथयिष्यामि । पथि यथा यथाऽग्रे स गतस्तथा तथा मिलिताऽभिनवद्वारपालादयस्तं प्रणम्य सादरं सममंसत | राजभवनं यावद् गच्छता तेन सह जनतया संकुलं मार्गमभवत्कष्टेन सर्वे राजभवनमविशन् । राज्ञश्चन्द्रस्याऽऽगमनवार्ता सेवकैः सिंहलाधीशाय पूर्वमेव विदिताऽभूदतः स तस्य स्वागतक्रियारचनायामासक्त आसीत् । यदा च सिंहलपतिस्तदागमनारावमऔषीत्तदा विजयवाद्यैः सहाऽग्रे गत्वा ससत्कारं तं स्वावासस्थानमानीय स्वासनमुपवेश्याऽचकथत्- हे आभानरेश ! भवत्पादन्यासेनाऽद्येयं नगरीदं च स्थानं पूतमहमपि दर्शनेन कृतार्थोऽभूवम् । चिरकालिकी भवदर्शनाभिलाषाऽद्य पूर्णाऽभूदूरस्थोऽपि भवान्मे हृदयस्थ एवाऽऽसीत् | यथाऽसन्निहितोऽपि भानुः कमलकुलानि प्रफुल्लयति, तथा भवन्नाम सुयशश्च श्रावं श्रावं वयं हृष्टा आस्म, अद्य भवतः सद्यो दर्शनेनाऽस्माकं हर्षातिरेको बभूव, सकलाश्चाशाः सफलत्वमगमन् । इत्थं सभूमिकाबन्धं सिंहलनरेशश्चन्द्रं कुशलप्रश्नं पृष्ट्वाऽवादीत्- स्वामिन् ! श्रीमानन्तर्यामी मम शिरोभूषणमस्ति, यथा मयूरश्चातको वृष्टिं, वत्सो मातरं, तथा वयमपि श्रीमन्तमिच्छामः। श्रीमतामागमनेनाऽस्माकं जीवितं साफल्यमाप, यतः प्रभुकृपां विना सत्पुरुषाणां दर्शनं दुर्लभं भवति। साम्प्रतं वयं श्रीमतां कां सत्कृतिं कुर्वीमहि ? यतः श्रीमन्तो वदान्यतमा भवदग्रे वयमगण्याः स्मः । यदि मद्राज्ये समागच्छेयुस्तदा प्रायो वयं किञ्चित्सेवां विदध्याम, परमियं विमलापुरी मदर्थं विदेश-वदस्ति । अत्र तु यथा माता पुत्रस्यावलोकनमात्रेणैव सन्तुष्टंमन्या भवति, तथैव वयमपि भवतः केवलं प्रणम्यैव धन्यंमन्या भवितुं शक्नुमः । यदि
|| ६४ ॥