________________
चन्द्रराजचरित्रम् - सप्तमः परिच्छेदः
अघटितविचित्रघटना
भवेयुरिति न जाने ? तदा द्वारपालाः स्पष्टीकुर्वन्त आख्यन्-वयं सिंहलनरेन्द्रस्य सेवकाः स्मः, तेनैव निर्दिष्टाङ्का वयमत्र स्थापिताः स्मः, तयैवाऽभिज्ञया भवानेव चन्द्र इत्यस्माभिरज्ञायत, इदानीं संस्तुतो भवानात्मानमपलपितुं न चेष्टताम् । इत्थं द्वारपालस्य वचनमाकर्ण्य किञ्चिद् वृत्तान्तज्ञानं राज्ञोऽभूत्, अतः शान्त्या नृपोऽप्राक्षीत् - युष्मान् किं चिह्नमवोचत्, येन मां चन्द्रं कथयथ? एतन्निशम्य द्वारपाला ऊचुः- पूर्वस्थपुरद्वारेण रात्रेः प्रथमयामव्यतीते यः पुमान् स्त्रीभ्यामन्वङ् नगरं प्रविशेत्तं राज्ञश्चन्द्रस्य नाम्नाऽऽहूय यूयं प्रणमेत, अत्यादरेण मत्समीपं चाऽऽनयेत । तेन ममैकमावश्यकं कार्यमस्ति, तस्यैव सिंहलपतेरादेशानुसारेण स्थाने स्थाने समुपविष्टा वयं श्रीमन्तं प्रतीक्षमाणा आस्म - राज्ञोक्तसङ्केताधारेण भवन्तं चन्द्रराजं जानीमः तेनैव च श्रीमन्तं तत्समीपगमनार्थं प्रार्थयामहे । महाराजस्य भवता साकं किं कार्यमस्ति, तदस्माकं प्रष्टव्याऽनधिकारतयाऽज्ञातमस्ति । तस्मादिदानीं श्रीमतोऽस्माभिः सह नूनं गन्तव्यं भवेत् कार्यं च युवयोः संगमेन स्वयमेव स्फुटीभविष्यति। राज्ञश्चन्द्रस्यैकाकित्वाद् द्वारपालानां चासङ्ख्येयत्वाच्चेतसि स चिन्तयति स्म - एतावत्कालं केवलं मातुरेव भयमासीत् संप्रति सिंहलनरेशस्यापि भयमाजगाम । तत्र गते किं भावीति न वेद्मि, परमेतेषां हस्तान्मुक्तिरप्यसुलभा, यतोऽहमसहायो नगरमप्यन्यदीयमेते च कर्मचारिणः, एषां प्रतिबोधनेनाऽपि न कश्चिल्लाभो भविष्यति, अतः सम्प्रति तन्निकटे गमनमेव श्रेयस्करं भविष्यति । इति विचार्य स द्वारपालानवदत्-चलन्तु, युष्माकं स्वामिनः सन्निधौ गन्तुं सन्नद्धोऽस्मि मम यद्वक्तव्यं
।। ६३ ।।
"