________________
चन्द्रराजचरित्रम् - सप्तमः परिच्छेदः
अघटितविचित्रघटना कुर्वदेवाऽगमत्तस्मादित्थं भ्रमपूर्णवृत्ते कदाचिदपि नागन्तुं शक्नोमि। मम प्रभुरावश्यककार्यवशाच्छ्रीमता सह संगन्तुमिच्छति, अतो मे प्रार्थनामुरीकृत्य मया सहैतुं चेष्टताम् । इदानीं राजा चन्द्रोऽतीव संकटेऽपतद् वीरमतीगुणावल्यौ तस्मिन् कालेऽतिदूरवर्तिन्यौ नाऽऽस्तामतो राज्ञो मनः सभयमासीद्यदेनं विवादं ते शृणुयातां चेदन्यस्मादन्यं भवेत्ततः स मौनेनैव द्वारपालेन सह गमनमेव स्वीचकार, तेन प्रहृष्टमना द्वारपालः सहैव तेन सिंहलपुराधीशस्य सौधं वव्राज | मार्गस्थाः सर्वे कर्मचारिणो नम्रशिरसस्तं प्रणेमुस्तेन राज्ञश्चन्द्रस्य मनसि शङ्का वर्षमानाऽऽसीत् । अत्रत्यानां जनानां मया सत्रा कथं परिचयः ? माम्प्रत्येते कथमादरं चाऽदर्शयन्निति तस्य कथमपि विदितं नाऽभूत् । शनैः शनैर्नगरस्य द्वितीयं द्वारमगमदत्रस्था अपि जना राजानं प्रणम्योचिरे- हे राजन् ! स्वागतं वः, सिंहलनृपो मम प्रभुभवन्मार्गमेव प्रतीक्षते । यथा चक्रप्रकटनेन चक्रवर्तिनो मनोरथाः सफलीभवन्ति, तस्य च नवनिधीनां प्राप्तिर्भवति, तथैव मम महाराजस्य भवतः समागमेन कार्यसिद्धिर्भविष्यति । राज्ञे चन्द्रायेदं वृत्तं नाऽरोचताऽतस्तस्यौत्सुक्यमेधितमासीत्स च रुष्ट: सन् बभाषे-यूयं मां चन्द्रं कथं जानीथ ? यथा धत्तूरभक्षकाणां सर्वत्र हिरण्यमेव दृष्टिगोचरं भवति, तद्ग्रहणार्थं च ते धावन्ति, तथैव युष्माकमपि परितश्चन्द्र एव नेत्रपथमारोहति, भवतां राजाऽपि भवादृश एवाऽस्तीति जाने। तेन मे कः परिचयः ? मामृते तस्य किमेतादृशं कार्य यन्न सिध्यति ? यस्माद्यूयमित्थं वार्ता कुरुथ, तेन यूयं यथार्थं धूर्ता इति प्रतीयते । एवं कतिचित्पथिकाश्चन्द्रभ्रमाद् युष्माभिर्वञ्चिता
।। ६२ ।।