________________
चन्द्रराजचरित्रम - सप्तमः परिच्छेदः
अघटितविचित्रघटना वागच्छम् । यतःविषमस्थितोऽपि गुणवान्, स्फुटतरमाभाति निजगुणैरेय । जलनिधिजलमध्येऽपि हि, दीप्यन्ते किं न रत्नानि ॥६५॥
अतो भवानेव चन्द्रराजाऽभिध आभानरेन्द्रोऽस्ति, एवमुक्त्वा द्वारपालस्तस्य करं गृहीत्वाऽऽत्मना सह गन्तुं सविनयं तमनुरुध्यते स्म । तदा राजा हस्तं मोचयन्नुवाच-भ्रातः ! हस्तं कथं गृह्णासि? त्वया यद् वक्तव्यं तदूरादेव कथ्यताम् । मया त्वं विक्षिप्तचेता इव लक्ष्यसे, यतस्त्वं मां चन्द्रराजं मत्वाऽऽत्मना सह चलितुं दुराग्रह करोषि मे मिथ्यावल्गनस्य प्रयोजनं नास्ति । व्यर्थं मां त्वमस्मिन् संकटे पातयसि त्वं द्रव्याभिलाषी चेत्तदपि दातुमुत्सुकोऽस्मि, परमित्थं व्यर्थं मां निरुध्य मे समयं निष्फलं मां कुरु | अद्यारण्ये मे बहुकालो व्यतीयाय, ततश्चिन्तिता मे प्रसूर्मा प्रतीक्षमाणा भवेत्। द्वारपालोऽवादीत्- राजन् ! इतोऽष्टादशशतयोजनदूरवर्तिनी भवद्राजधानी विद्यते, पुनरत्र कथं कुत्र वा भवज्जननी भविष्यति? कृपयेत्थं मां नो सन्देहे पातय, मे च मा क्रुध्यतु । यदि भवादृशाः प्रतापिनो मिथ्याभाषिणो भवेयुस्तर्हि कथमियमचला संसारभारं बिभृयात् ? | यतःजेण परो दूमिज्जइ, पाणिवहो होइ जेण भणिएण । अप्पा पडइ अणत्थे, न हु तं जपंति गीअत्था ॥८॥
राजन् ! मादृशानां जीवनं भवादृशानामुत्तमपुरुषाणां सेवां
|| ६१ ।।