________________
चन्द्रराजचरित्रम् - सप्तमः परिच्छेदः
अघटितविचित्रघटना
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य सप्तमपरिच्छेदेऽघटितविचित्रघटना
इत्थं निर्विघ्रबाधं वीरमतीगुणावल्यौ विवाहमण्डपमीयतुः परं राजा चन्द्रो नगरं प्रविशन्नेव बाधया बाधितोऽभूत, येन तस्य सर्वोऽपि कार्यक्रमो व्यत्यासत्वमाप | नगरस्य प्रथमद्वारे पादे निहिते सत्येव कश्चिन्नम्रशिरोद्वारपालः पूर्वसंस्तुत इव तं प्रणनाम। तं तथाऽवलोकमानः साश्चर्यो राजा मामन्यं वा प्रणमतीति चिन्तयति स्म । कोट्टपालः पुनरपि तं विस्मापयन्नुवाच-जयतु जयतु चन्द्रनरेन्द्र! सत्यं भवान् गुणागारोऽत्राद्य समागत्याऽस्मान् सनाथानकरोत् । अधुना श्रीमतामागमनेनाऽस्माकं महती चिन्ता दूरमगमत, वयं द्वितीयाचन्द्रवद् भवदागमनं प्रतीक्षमाणा आस्म | सम्प्रति दयां कृत्वा सिंहलपुरराजस्य समीपं चलतु, तस्यावासं च पुनातु | प्रतीहारस्यैतद्वचनं श्रुत्वा राजा चन्द्रः स्वान्ते चिन्तितवान्-अहो! महदाश्चर्यमेतद्यदयं मामेव नो किन्तु ममाख्यामपि वेत्ति, परं भ्रान्तोऽयमिति मे प्रतिभाति । कञ्चिदन्यं चन्द्रं प्रतीक्षेत्तद्भमेण मया सहेत्थं वदेदित्यपि संभवति, एतद्विचार्य नरेन्द्रेण चन्द्रेण जगदेहे द्वारपाल ! चन्द्रस्त्वाकाशे वसति, पुनस्त्वं केन वार्ता कुर्वन्नसि? अस्यां नगर्यां मे महत्कार्यमस्ति, अतो मां मा वारय, इत्थं कञ्चिदज्ञात्वा रोधनं नोचितम् । बद्धाञ्जलिना द्वारपालेनोचे- हे आभानरेन्द्र! भवानात्मानं कथमपलपति ? किं रत्नं जात्वप्यलक्षितं भवेत् ? कस्तूरीगन्धः केनचित् किमाच्छाद्यते ? नाऽहं भ्रान्तः किन्तु सम्यग
|| ६० ||