________________
चन्द्रराजचरित्रम्
वीरमतीगुणावल्योर्विमलापुरी प्रस्थानम्
I
कमस्ति । एवंविधां वार्तां कुर्वाणे द्वे विमलापुरीं निकषेयतुर्यस्याः सुषमा दूरादेव दृश्यमानाऽऽसीत् । विविधमनोहरोपवनानि रमणीयतरतडागा अभ्रङ्कषाः प्रासादाश्च दर्शकानां चेतोहरणाय परस्परं कृतग्लहा इवाऽऽसन् । नगरप्रासादा आलोकोज्ज्वलज्योतिषा जाज्वल्यमाना विलसन्ति, सर्वमेतदवलोक्य गुणावली वीरमतीमपृच्छत्-मातः ! किमाख्येयं नगरी ? वीरमत्योदे- इयमेव विमलापुर्यस्ति, यां द्रष्टुमत्राऽऽगताऽसि । अस्मिन्नेव समये माकन्दपादपोऽम्बरादवनीतलमवततार, नगराद् बहिरूपवने तस्थौ च वीरमतीगुणावल्यौ तस्मादूत्तीर्य नगराभिमुखं चेरतुः । पश्चाद्राजा चन्द्रोऽपि तदनुगमनक्रमेण जगाम । मातुरद्भुतविद्यावलोकनेन तन्मनसि किञ्चिदपि भयसंचारो नाऽजनि, यतो वीरपुरुषो मृगेन्द्र इव निरन्तरं निर्भीको भवति ।
यतः
-
षष्ठः परिच्छेदः
-
एकोऽहमसहायोऽहं, कृशोऽहमपरिच्छदः । स्वप्नेऽप्येवंविधा चिन्ता, मृगेन्द्रस्य न जायते
F शनैः शनैरुभे नगरं विविशतुः, राजा चन्द्रोऽप्येतावत्कालं ताभ्यां सहैवाऽऽसीत् नगरप्रवेशानन्तरं वीरमती गुणावलीं कृत्स्नं नगरं भ्रान्त्वा भ्रान्त्वाऽदर्शयत । पश्चादुभाभ्यां विवाहमण्डपो जग्मे तत्र नृत्यगानवाद्यादीनां ध्वनिर्गुञ्जमान आसीत् । तदानीं वरवध्वोरागमने विलम्ब आसीत्, अतस्ते तत्रैव संतिष्ठमाने परितो देदीप्यमानां शेभां द्रष्टुमलगताम् ।
।। ५६ ।।