________________
चन्द्रराजचरित्रम् - षष्ठ: परिच्छेदः वीरमतीगुणावल्योर्विमलापुरीप्रस्थानम् कसाघातमिव तमामवृक्षं संताड्य जगाद-आवां विमलापुरीं नय। तदानीमेवाम्रवृक्षो वायुयानमिव वियत्युड्डीयमानो विमलापुरीमभिचचाल | यथा केवलज्ञानवारकेण कर्मणा जीवानां केवलज्ञानमावृतं भवति, तथा कोटरावरणेन राजा चन्द्रोऽप्यावृत आसीत् । परन्तु मतिश्रुतादिज्ञानवारकस्य कर्मणः क्षयोपशमेन जीवानां किञ्चिद् बोध इव राजा चन्द्रोऽपि कोटराभ्यन्तरतो बाह्यपदार्थदर्शनक्षम आसीदेव । मानसादपि द्रुतगतिरामवृक्षोऽभूत, तदानीमेव चन्द्रोदयाद् विविधानि नगरवनोपवनानि तस्य दृष्टिगोचराणि भवन्त्यपि क्षणान्तर एवादृश्यानि बभूवुः । द्यावापृथिव्योमण्डलं परितो निर्मला चन्द्रिका प्रसरन्त्याऽऽसीत्, तत्रामवृक्षस्योड्डयनं क्षीरसागरे तरिरिवाभवत्पथ्यागतं स्थानविशेष गुणावली दर्शयन्ती वीरमती तस्य वर्णनं कुर्वती जगाम । समागतायां गङ्गायां सा बभाषे-प्रियवधु! पश्येयं परमपाविनी गङ्गाऽस्ति यस्यां स्नानमात्रेण प्राणिनामेनोमलं धौतं भवति । पश्येयं कालिन्दी नद्यस्ति, चैतस्या अपि जलं बाढं निर्मलं नीलं दृश्यते । इत्थं मार्गस्थं सकलं वस्तु दर्शयन्ती तेषां गुणं च विवृण्वती जगाम । पुनरग्रे दृश्यमानमष्टापदगिरिं गुणावली दर्शयन्ती जगाद-पुत्रवधु ! पश्यायमष्टापदाद्रिर्विद्यतेऽत्र भरतेन निर्मापितं स्वर्णमणिमयं जिनचैत्यं सुशोभितमस्ति। अतः पूर्वस्यां दिशि भगवतः श्रीऋषभदेवस्य भगवतोऽजितनाथस्य च, दक्षिणस्यां संभवनाथादीनां चतुर्णा, पश्चिमायां सुपार्श्वनाथादीनामष्टानामुत्तरस्यां च धर्मनाथादीनां दशानां तीर्थङ्कराणां मूर्तयो विद्यन्ते। अत्र रावणः समागत्य तीर्थङ्करनामकर्मोपार्जयिष्यते, इममद्रिमेव परितो वलयाकारा गङ्गा प्रवहति । पुनरग्रे गते सम्मेतशिखर
॥ ५६ ॥