________________
चन्द्रराजचरित्रम् - षष्ठः परिच्छेदः वीरमतीगुणावल्योर्विमलापुरीप्रस्थानम् मवलोक्य वीरमत्योचे- प्रियवधु ! एतत्तीथं वन्दस्व यतोऽत्र प्रथमो द्वादशो द्वाविंशश्चतुर्विंश एतांस्तीर्थकरान् विनाऽवशिष्टास्तीर्थङ्करा मुक्तिं लप्स्यन्ते, तेषु सप्तदशतीर्थकरा मोक्षं गता अवशिष्टास्त्रयोऽपि यास्यन्ति । अयं वैभारगिरिरयमबुंदा-चलोऽयं सिद्धाचलश्चास्ति, तेषु सिद्धाचल एव पापौघहरणे श्रेष्ठतमो विद्यतेयतःकृत्वा पापसहस्राणि, हत्वा जन्तुशतानि च । इदं तीर्थं समासाद्य, तिर्यञ्चोऽपि दियं गताः ॥६२॥
अस्य दर्शनमात्रेणैव जीवानां कृत्स्नं पापं नश्यति, पूर्वस्मिन् कालेऽत्र भगवानृषभदेवो नवनवतिपूर्ववारं समवसृतोऽभूत् । किं बहुना - वच्मः किमस्य चोच्वैस्त्वं, येन पूर्वजिनेशितुः । अधिरुह्यात्र लोकाग्रं, पौत्रैरपि करे कृतम् ॥३॥
इहाऽसंख्यातैर्मुनिभिः केवलज्ञानं च सिद्धपदं जग्मे । अस्य तीर्थस्य प्रथमोद्धारो भरतचक्रिणा, द्वितीयो राज्ञा दण्डवीर्येण, तृतीय ईशानेन्द्रेण, चतुर्थो माहेन्द्रेण, पञ्चमो ब्रह्मेन्द्रेण, षष्ठो भुवनपतीन्द्रेण, सप्तमः सगरचक्रिणा, अष्टमो व्यन्तरेन्द्रेण, नवमश्चन्द्रयशोनृपेण, दशमश्चक्रायुधेनाऽकारि । एवं दशकृत्वोऽस्य तीर्थस्योद्धारोऽभूत्पुनरपि रामचन्द्रेण करिष्यमाण उद्धारोऽवशिष्टोऽस्ति। प्रियवधु ! त्रिविधिनैनं वन्दस्व, यतोऽस्य संसारसागरस्योत्तरणायाऽयं साक्षात्तरिकल्पोऽस्ति । यतः
२७
|| ५७ ॥