________________
चन्द्रराजचरित्रम्
-
षष्ठः परिच्छेदः वीरमतीगुणावल्योर्विमलापुरी प्रस्थानम्
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य षष्ठमपरिच्छेदे
वीरमतीगुणावल्योर्विमलापुरी प्रस्थानम्
नागरिकान्निद्रितान् विधाय वश्रूवध्वौ गमनाय सज्जिते बभूवतुः । तत्र गमनकाले वीरमती तां पुनरुवाच- प्रियगुणावलि ! इतोऽष्टादशशतयोजनदूरवर्तिविमलापुरीगमनमसंभवं मन्यमानया त्वया दृश्यतां मम विद्याबलेन त्वामविलम्बितमेव तत्र नयामि । गुणावल्यै वीरमत्योक्तमुद्यानस्थाऽऽम्रवृक्षमारुह्य विमलापुरी - गमनमिति राज्ञा चन्द्रेण पूर्वत एव श्रुतमासीत्, इति राजा चन्द्रोऽपि तत्र गत्वाऽनयोश्चरित्रमवलोकनीयमिति चिन्तयंस्ताभ्यां पूर्वमेवोद्यानं गत्वाऽतिष्ठत् । वीरमत्या कथितमाम्रवृक्षं ध्यानेन पश्यन् तस्मिन् सुखेनोपवेष्टुमर्हमन्येनालक्ष्यं कोटरमेकमपश्यत् । किञ्चिद् विचारस्य तत्राऽवस्थानस्य च समयाभावाद् द्रुतमेव स तत्र गत्वा प्रविवेश चाचिन्तयत्-गुणावली तु गुणावल्येवाऽऽसीत्, मयाद्यपर्यन्तं तस्यां दुर्गुणो न दृष्टः, परमृजुस्वभावतया मातुः कपटजाले पतिताऽस्ति, तयैव तस्या बुद्धिविपर्ययः कृत इति ज्ञायते परं सम्प्रत्यनयोः कृतिर्दर्शनीया । अनन्तरमेव ते तत्रागत्योपस्थिते बभूवतुस्ते उभे विलोक्य राजा विचारमग्नः संजातः, यदि वृक्षान्तरमारुह्य गच्छेतां तदा तत्र मम गमनं न भविष्यति, परं तदैव प्रसन्नमनसौ ते तमेव वृक्षमारुरुहतुरिति तस्य शङ्का शीघ्रतरमेव न्यवर्तत । राजाऽपि I तथा छन्न आसीद्यथा ताभ्यां द्रष्टुं न शक्येत, वीरमती करवीरयष्ट्या
/
।। ५५ ।।
―